SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाम्ये निशम्य देवानुपरस्य वाचं मनुष्यदेवः पुनरप्युवाच । धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ ५२ ॥ सीविनी-देवानुचरस्येश्वरकिंकरस्य सिंहस्य वावं निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किंभूतः सन् । तेन सिंहेन यदध्यासितं ध्याक्रमणम् । “नपुंसके मावे क्तः" तेन कातरे अक्षिणो यस्यास्तया । "बहुव्रीही सक्थ्यक्ष्णो: स्वाङ्गाषच्” इति षच । “षिद्गौरादिभ्यश्च" अनि ङीष् । किं वा वक्ष्यतीति मीत्येवं स्थितयेत्यर्थः । धेन्वा निरीक्ष्यमाणः । अत एव सुतरा दयालुः सन् । सुतरामित्यत्र "द्विवचनविमज्य' इत्यादिना सुशब्दात्तर प् । “किमेत्तिङव्ययपादाम्बद्रव्य प्रकर्ष" इत्यनेनाम्प्रत्ययः । "तद्धितश्चासर्व विभक्तिः' इत्यव्यय संज्ञा ॥ ५२ ॥ __ अन्वयः-देवानुचरस्य, वाचं, निशम्य तदध्यासितकातराक्ष्या, धेन्वा, निरीक्ष्यमाणः, सुतरां दयालुः मनुष्यदेवः, पुनः, अपि, उवाच। वाध्य०-धेन्वा निरीक्ष्यमाणेन दयालुना मनुष्यदेवेन पुनरप्यूचे । व्याख्या-देवस्य = महादेवस्य, अनुचरः = किंकरस्तस्य देशानुचरस्य = सिहस्य, वाचं :-वाणी, निशम्य = शुवा, मनुष्यदेवः राजा दिलीपः, पुनः = भूयः, अपि उवाच = कथयामास; “किम्भूतः सन्" तेन = सिंहेन, यदध्यामितम् = आक्रमणं तेन. सिंहाकमणेनेत्यर्थः, कातरे मोते, अक्षियो = नेत्रे यस्थाः सा तया तथोक्तया, धेन्वा = नन्दिन्या, निरीक्ष्यमाणः = अवलोक्यमानः, अत एवेति शेषः, सुतराम् = अत्यन्तं, दयालुः = कारुणिकः, सन्। समा०--देवानाम् अनुचरः, देवानु चरः, तस्य देवानुचरस्य । मनुष्याणां देवः मनुष्यदेवः । तेन अध्यासित तदध्यासितम् तदध्यासितेन कातरे अक्षिणी यस्याः सा तदध्यासितकातराक्षा, तया तदध्यासितकात राक्ष्या। निरीक्ष्यते इति निरीक्ष्यमाणः । अमि०-सिंहाक्रमणेन, अधोरलोचनया नन्दिन्या दृश्यमानो राजा दिलीयः पुनरपि सिंहम्प्रत्य. वोचत् । हिन्दी-भगवान् महादेव के अनुचर सिह की वाणी को सुनकर, मनुष्यों के राजा दिलीप: सिंहाक्रान्त होने से व्याकुल नेत्र वाली नन्दिनी से देखे जाते हुए इसी से और भी दय पूर्ण होकर पुनः सिंह से बोले ॥ ५२ ॥ क्षतास्किल ब्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरोतवृत्तः प्राणरुपक्रोशमलीमसैर्वा ॥ ५३ ॥ सजीविनी-'क्षणु हिंसायाम्' इति धातोः संपदादित्वाक्त्रिप् । (गमादिनाम् ) इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं मिद्धम् । क्षतो नाशात् प्रायत इति क्षत्रः। सुपीति योगविभा. गात्कः, तागेता व्युत्पत्ति कविरर्थतोऽनुक्रामति सतादित्यादिना। उदग्र उन्नत: क्षत्रस्य क्षत्रवर्षस्य शब्दो वाचकः । क्षत्त्रशब्द इत्यर्थः । क्षतात् त्रायत इति व्युत्पत्त्या भुवनेषु रूटः किल प्रसिद्धः खलु । नारवकर्णादिवत्केवलरूढः । किन्तु पहनादिवद्योगरूढ इत्यर्थः । ततः किमित्यत आह-तस्य क्षत्रशब्दस्य विपरीतवृत्तेविरुद्धव्यापारस्य क्षता त्राणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैनिन्दामलिनैः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy