SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ૨ रघुवंशमहाकाव्ये ऋधि' इत्यमरः । घटा इवोपांसि यासां ताः घटोयोः "ऊधसोऽनङ" इत्यनडादेशः । “बहुव्रीहेरूधसो डीप' इति ङीष् । कोटिशो गाः स्पर्शयता प्रतिपादयता । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्' इत्यमरः। भवता विनेतुमपनेतुं शक्यः ।। ४१ ।। अन्वयः-अथ, एकधेनोः, अपराधचण्डात , कृशानुपतिमात् , गुरोः, विभेषि, 'चेत्' अस्य, मन्युः घटोनी: कोटिशः, गाः, स्पर्शयता, भवता, विनेतुं शक्यः । वाच्य०-"त्वया" मीयते, अस्य, मन्युं स्पर्शयन् भवान् विनेतुं शक्नुयात् । व्याख्या-अथ = अथवा, एका - केवला, एव, धेनुः गौः, यस्य स तस्मात् , एकवेनोः, अतएक अपराधे- आगसि गवोपेक्षालक्षणे, चण्डात् = अतिक्रूरात् , अतएव कृशानुपतिमात् = वह्निसशात् , गुरोः वसिष्ठात् , बिमेषियास, चेत्, अस्य = गुरोः. मन्यु:-क्रोधः, घटाः इव ऊधांसि यास ताः, कलशापोनवतीः, कोटिशः = कोटिसंख्यकाः, गाः= सौरभेयोः, स्पर्शयता=ददता, भवता = दिलीपेन, विनेतुं =दूरीक, शक्यः =क्षमः । समा०-एकैव धेनुः यस्य सः एकधेनुः तस्मात् एकधेनोः । अपराधे चण्डः अपराधचण्डः, तस्मात् अपराधचण्डात् । कृशानुः प्रतिमा यस्य सः कृशानु प्रतिमः, तस्मात् कृशानुप्रतिमात् । घटा इव ऊधांति यासा ताः घटोन्यः, ताः घटोनी: । स्पर्शयति इति स्पर्शयन् , तेन स्पर्शयता । अभि०-हे राजन् , यदि वं नन्दिनीविनाशरूपापराधेन अतिक्रुद्धात् गुरोः बिमेषि तहिं कोटिशः गाः दत्त्वा तस्य क्रोधशान्ति कतु समर्थोऽसि, अतः धेनुरक्षाग्रहो वृथैव ।। हिन्दी-अथवा हे राजन् , एक हो गौ होने के कारण गोरक्षा न कर सकने से अत्यन्त ऋद्ध तथा अग्नि के तुल्य अपने गुरु जी से यदि तुम डरते हो तो घड़े के समान स्तन (बाँक) वाली करोड़ों गायें देकर गुरु के क्रोध को दूर कर सकते हो ।। ४९ ॥ तदक्ष कल्याणपरम्पराणां मोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रमिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ ५० ॥ सन्जीविनी-तत्तस्मात्कारणात्कल्याप्यपरम्पराणां भोक्तारम् । कमप्पि षष्ठी । ऊर्जा बलमस्यास्तीत्यूजस्वलम् । “ज्योत्स्नातभिना" इत्यादिना वलच्प्रत्ययान्तो निपातः । आत्मदेहं रक्ष । ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याह महीतलेति । ऋद्ध समृद्ध राज्यम् । महोतसस्पर्शनमात्रेप मृतलसम्बन्धमात्रेष मिन्नमैन्द्रमिन्द्रसम्बन्धि पद स्थानमाहुः । स्वर्गान्न भिद्यत इत्यर्थः ।। ५०॥ अम्वयः-तत्, कल्याणपरम्पराणां, भोक्तारम् , ऊर्जस्वलम् , मात्मदेह, रक्ष, हि, ऋद्ध, राज्यं, महीतलस्पर्शनमात्रभिन्नम् ऐन्द्र, पदम् , आहुः। वाच्य-मोक्ता, ऊर्जस्वलः, आत्मदेहः त्वया रक्ष्यता, राज्यमेन्द्र पदमुच्यते । व्याख्या-तत् - तस्मात् कारणात् कल्याणानां = मंगलाना, परम्परा:-श्रणयस्तासां कल्याणपरम्पराणां, मोक्तारम् = अनुभवितारम् , ऊों बसमस्यास्तीति ऊर्जस्वलस्तमूर्जस्वलं - बलवन्तम् , भारमनः= स्वस्य, देह = शरीरं, रक्ष= पालय । हि = यतः, ऋद्ध- समृद्ध, राज्यं = राजकर्म, मण्यास्तकं महीतलं, महीतलस्य = पृश्चिीतकस्य केवलं स्पर्शन, सेन भिन्न-पृथक् कृतम् , तथोक्तं इन्द्रस्वेद मैन्द्रम् इन्द्रसम्बन्धि, पदं स्थानम् , आहुः कथयन्ति ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy