SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ४१ हिन्दी-संसार का एकछत्र राज्य तथा नई जवानी एवं सुन्दर यह शरीर इन सब अमूल्य रत्नो को एक गौके पीछे नष्ट करना चाहते हो, इससे मैं समझता हूँ कि तुम कर्तव्याकर्तव्य के विचार में अकुशल ही हो॥४७॥ भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥४८॥ सजीविनी-तव भूतेष्वनुकम्पा 'कृपा दयानुकम्श स्यात्' इत्यमरः। कृपैव वर्तते चेदित्यर्थः । तहि त्वदन्ते तव नाशे सतीयमेका गौः स्वस्ति क्षेममस्या अस्तीति स्वस्तिमती भवेत् । जोवेदित्यर्थः। 'स्वस्त्याशीः क्षेमपुण्यादौ' इत्यमरः। हे प्रजानाथ ! जीवन्पुनः पितेव प्रजा उपप्लवेभ्यो विध्नेभ्यः शश्वत्सदा । 'पुनः सदार्थयोः शश्वत्' इत्यमरः । पानि रसि । समागव्ययेनेकवेनुरक्षण द्वरं जीवितेनैव शश्वदखिल जगत्त्राणमित्यर्थः ।। ४८॥ अन्वयः--तव, भूतानुकम्पा, चेत् “तहिं" त्वदन्ते, "सति" इयम्, एका, गोः, स्वस्तिमतो, मवत् , प्रजानाथ, जीवन् , पुनः, पिता, इत्र, प्रजाः, उपप्लवेभ्यः, शश्वत् , पासि । वाच्य०-तव भूतानुकम्पया चेद् “भूयते" तहिं अनया एकया गवा, स्वस्तिमत्या भूयते "स्वया" जीवता पुनः पित्र व प्रजाः पायन्ते । व्याख्या-तव - भवतः, भूतेषु = प्राप्पिषु, अनुकम्पा = दया, चेत् = यदि, अस्तीति, तहिं इति शेषः, तव भवतः, अन्तः=विनाशस्तस्मिन् त्वदन्ते, सतीति शेषः, इगम् =एषा, एका = केवला, गो:- धेनुः, नन्दिनी, एव स्वस्तिमती कल्याणवती, रक्षिवेति यावत् , भवेत् =स्यात् , हे प्रजानाथ जनस्वामिन् , जीवन् = प्राणान् धारयन् , पुनः, पिताजनकः, वयथा, प्रजाः = जनान् , उपप्लवेभ्यः = उपद्रवेभ्यः चौरादिभ्य इत्यर्थः, शश्वत् = निरन्तरं, पासित्रायसे। समा०--भूतेषु अनुकम्पा भूतानुकम्पा। गच्छतीति गोः। स्वस्ति अस्या अस्तीति स्वस्तिमती। तव अन्तः स्वदन्तः, तस्मिन् त्वदन्ते । प्रजानां नाथः प्रजानाथः, तत्सम्बुद्धौ हे प्रजानाथ ! ____ अमि०--हे राजन् त्वयि जीवति सति लोकरक्षणं मविष्यति, बन्नाशे पुनः केवलनन्दिनोरक्षणं मविष्यति । तव शरीररक्षणमेव श्रेष्ठं नतु केवलेकधेनुरक्षणम् । हिन्दी--यदि तुम्हारी जीवों पर कृपा है तो तुम्हारे मर जाने पर केवल इस एक गौ का ही कल्याण होगा, हे प्रजानाथ दिलीप ! तुम्हारे जीवित रहने पर तो तुम पिता के समान प्रजा की कष्टों से सदा रक्षा करते रहोगे ॥ ४८।। अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि।। शक्योऽस्य मन्युभवता विनेतुंगाः कोटिशः स्पर्शयता घटोनीः ॥ ४९ ॥ सञ्जीविनी-अथेति पक्षान्तरे । अथव।। एकैव धेनुयस्य तस्मात् । अयं कोपकारपोपन्यास इति शेयम् । अत एवापराधे गोपेक्षालक्षणे सति चण्डादतिकोपनात् । 'चण्डस्वन्यन्तकोपनः' इत्यमरः । मत एव कशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद् गुरोविमेषि । इति काकुः । "मोत्रार्थानां भयहेतुः" इत्यपादानात्पश्चमी । अल्पवित्तस्य धनहानिरतिदुःसहेति मावः। अस्य गुरोर्मन्युः क्रोधः मन्युदैन्ये क्रतो
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy