SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्तिरं हः शिलोच्चये मूर्च्छति मारुतस्य ॥ ३४ ॥ संजीविनी - हे महीपाल ! तव श्रमेपालम् । साध्यामात्राच्छ्रमो न कर्तव्यः इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वात्तृतीया । उक्तं च न्यासोद्दयो – “ न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तहिं गम्यमानावि" इति । 'अलं भूषणपर्याप्तिशक्तित्रारप्यवाचकम्' इत्यमरः इतोऽस्मिन्मयि । सार्वविभक्तिकस्तसिः । प्रयुक्तमप्यस्त्रं वृथा स्यात् । तया हि । पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोच्चये पर्वते न मूर्च्छति न प्रसरति ॥ ३४ ॥ " अन्वयः - महीपाल तव श्रमेण, अलम्, इतः, मयि, प्रयुक्तम्, अपि, अस्त्रं, वृथा, स्यात्, पादपोन्मूलनशक्ति, मारुतस्य, रंहः, शिलोच्चये, न मूर्च्छति । वाच्य० - प्रयुक्तेनाप्यस्त्रेण वृथा भूयेत, मारुतस्य रंहसा, शिलोच्चये, न मूर्च्छयते । , व्याख्या - महीं = पृथिवीं पालयतीति तत्संबुद्धौ, हे महीपाल = पृथिवीपाल ! तत्र = भवतः, श्रमेण = प्रयासेन, अलन् = साध्यं नास्ति वृथेत्यर्थः, “कुनः" इतः = अस्मिन् मयि, प्रयुक्तम् = प्रेरितं = क्षिप्तम् अपि अस्त्रम् = आयुधं वृथा = व्यर्थ, स्यात् = भवेत्, "यनः" पादैः पिवन्तीति पादपास्तेषां पादपानां= वृक्षाप्याम्, उन्मूलनम् = उत्पाटनं तस्मिन् शक्तिः = सामर्थ्यं यस्य तत् पादपोन्मूलनशक्ति, · मारुतस्य = वायो:, रंइः = वेगः, शिलानामुच्चयस्तस्मिन् शिलोच्चये = पर्वते, न नहि, मूर्च्छति = प्रसरति । ३१ समा०—म पालयतीति महीपालः तत्सम्बुद्धौ महीपाल, पादैः ( मूलैः ) पिवन्तीति पादपाः, पादपानाम् उन्मूलने शक्तिः यस्य तत् पादपोन्मूलनशक्ति । शिलाभिरुच्चोयते इति शिलोच्चयः, तस्मिन् शिलोच्चये । अमि० - हे राजन् ! मयि बाणमोचनं तत्र श्रमेणापि साध्यं नास्ति त्वया प्रयुक्तमपि आयुधं तथैन वृथा भविष्यति यथा वृक्षोत्पाटने समर्थोऽपि वायुवेगः पर्वते विफलो मवति । हिन्दी - हे पृथिवो के रक्षक दिलीप ! तुम मुझे मारने का प्रयत्न मन करो, क्योंकि मेरे ऊपर चलाया हुआ अस्त्र टसी प्रकार व्यर्थ होगा, जिस प्रकार कि वृक्षों को उखाड़ने की शक्ति रखनेवाला वायु का वेग पर्वत को उखाड़ने में विफल होता है ॥ ३४ ॥ कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ ३५ ॥ सन्जीविनी - कैलास इव गौरः शुभ्रस्तम् । 'चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः' इति शाश्त्रतः । वृषं वृषभभारुरुक्षोरारोडुमिच्छो: । स्वस्योपरि पदं निक्षिप्य वृषमारोहवीत्यर्थः । अष्टौ मूर्तयो यस्य स तस्माष्टमूर्तेः शित्रस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठ ं यस्य ' तथोक्तं निकुम्म मित्रं कुम्भोदरं नाम किंकर मामवेहि विद्धि । “पृथिवो सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः ।। " इति यादवः ||३५|| श्रन्ववः - कैलासगौरं वृषम्, आरुरुझोः अष्टमूर्तेः पादार्पणानुग्रहपूतपृष्ठं, निकुम्भमित्रं, कुम्भोदरं नाम, किंकरं माम्, अहि । >
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy