SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अमि०-भुजस्तम्भन प्रवृद्धमन्युः राजा दिलोपः समीपस्थमपि, अपराधकारियं सिंहं हन्तुमसमर्थः सन् , मंत्रौषधिरुद्धप्रभावः सर्प व स्वतेजसा, अतप्यत । हिन्दी-हाथ के रुक जाने से अत्यन्त क्रुद्ध राजा दिलीप, मंत्र तथा औषधि से बाँध दिया गया है प्रभाव जिसका ऐसे विषधर सांप की माँति, पास में खड़े अपराधी सिंह को न छू सकने वाले अपने खेज से मोतर ही मीतर जलने लगा ॥ ३२ ॥ ___ तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा अनुवंश केतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥ ३३ ॥ संजीविनी-निगृहीता पीडिता धेनुयन स सिंहः। आर्याणां सतां गृह्यं पक्ष्यम् “पदास्वैरिबाद्यापथ्येषु च" इति क्यप् । मनुवंशस्य केतुं चिह्न केतुवयावर्तकम् । सिंह श्वोरुसत्यो महाबलस्तम् । मात्मनो वृत्ती बाहुस्तम्भरूपे ब्यापारेऽभूतपूर्वत्वाद्विस्मितम् । कर्तरि क्तः। तं दिलीपं मनुष्यवाचा करणेन पुनविस्माययन्विस्मयमाश्चर्य प्रापयन्निजगाद । 'स्मिङ् ईषद्धसने' इति धातोणिचि वृद्वावायादेशे शतप्रत्यये च सति विस्माययन्निति रूपं सिद्धम् । 'विस्मापयन्' इति पाठे पुगागममात्रं वक्तव्यम् । तच्च "नित्यं स्मयतेः” इति हेतुभयविवक्षायामेवेति "मोम्योहें तुभये" इत्यात्मनेपदे विस्मापयमान इति स्यात् । तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम् । करणविवक्षायां न कश्चिद्दोषः ॥ ३३ ॥ अन्वयः-निगृहीतधेनुः, सिंहः, आर्यगृह्यं, मनुवंशकेतुं, सिंहोरुसत्तम् , आत्मवृत्ती, विस्मितं, तं, मनुष्यवाचा, विस्माययन , निजगाद । वाध्य-निगृतधेनुना सिंहेन, आर्यगृह्यः, मनुवंशकेतुः, सिंहोरुसत्तः विस्मितः स विस्माययता, निजगदे। व्याख्या-निगृहोता = पीडिता, धेनुः = नन्दिनी येन स निगृहोतधेनुः, सिंह: केसरो, आर्याणां = सज्जनानां, गृह्य = पक्ष्यं = पक्षपातयोग्यमित्यर्थः, मनुवंशस्य = मनुकुलस्य, केतुः = चिह्नमिति मनुवंशकेतुस्तं तथोक्तम् , सिंहस्य = केसरिण इत्र, उरु = विपुलं सत्त्वं = बलं यस्य स तं सिंहोरुसत्वम् , आत्मनः स्वस्य, वृत्तिः = बाहुस्तम्भरूपा, तस्यामात्मवृत्ती, विस्मितम् =आश्चर्यान्वितं तं दिलीपं, मनुष्यस्य = नरस्य, वाक् = वायो, तया, मनुष्यवाचा, ( करणेन ) "भूयः" विस्माययन् - विस्मितं कुर्वन् , निजगाद= अवोचत् । समा०-निगृहीता धेनुः येन सः निगृहीतधेनुः । आर्याणां गृह्यः आर्यगृह्यः, तम् भार्यगृह्यम् । मनोः वंशः मनुवंशः, मनुवंशस्य केतुः मनुवंशकेतुः, तं मनुवंशकेतुम् । सिंहस्य इव उरु सत्त्वं यस्य सः सिंहोरुसत्तः, तं सिंहोरुसत्त्वम् । आत्मनः वृत्तिः आत्मवृत्तिः, तस्याम् आत्मवृत्ती। मनुष्यस्य वाक् मनुष्यवाक्, तया मनुष्यवाचा। अभि०-सिंहः बाहुस्तम्मनरूपव्यापारे, अतीवाश्चर्ययुतं राजानं मनुष्यवाण्या मूयोऽपि, अधिक विस्माययन् , उवाच । हिन्दी-धेनु को पीड़ित करने वाला सिंह सज्जनों के पक्ष में रहने वाले मनुवंश के शिरोमणि, सिंह के समान पराक्रमो, अपने बाहुस्तम्मन रूप व्यापार से आश्चर्ययुक्त उप्त राजा दिलीप को फिर चकित करता हुआ मनुष्यवाणी से बोला ।। ३३ ।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy