SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ३२ रघुवंशमहाकाव्ये वाच्य०-"वया" अहम् , कुम्भोदरः किंकर: अवेये । व्याख्या-कैलास: पर्वतविशेषः इव, गौरः श्वेतः, ति तम् , कैलासगौरं, वृष = वृषभम् , आरोदुमिच्छतीति भारुरुक्षुस्तस्यारुरुक्षोः, आरोहणं कतुमिच्छोः, अष्टौ अष्टसंख्यकाः, मूर्तयः - पृथिवीसलिलादयः यस्यासौ, तस्याष्टमूते: शिवस्य, पादयोः = चरणयोः अर्पणं = न्यासः, पादार्पणं, तदेव अनुग्रहः = प्रसादः, तेन पूतं = शुद्ध, पृष्ठं = पृष्ठमागो यस्य सः, तं तथोक्तम् , निकुम्भस्य = निकुम्भनामकगणस्य, मित्रं = सहृत् , तं निकुम्ममित्रम् , कुम्भोदरं = कुम्भोदरनामकं, किंकरं - सेवक गपमिति यावत् , माम् = सिंहम् , प्रवेहि =जानीहि । समा०-कैलास इव गौर: कैलासगीरः, तं कैलासगौरम् । आरोदुमिच्छतीति आरुरुक्षुः, तस्य आरुरुक्षोः । अष्टौ मूर्तयो यस्य सः अष्टमूर्तिः, तस्य अष्टमूतेः । पादयोः अर्पणं पादार्पणम् , पादार्पणम् । एव अनुग्रहः पादार्पणानुग्रहः, पादार्पणानुग्रहेण पूतं पृष्ठं यस्य सः पादार्पणानुग्रहपूतपृष्ठः, तं पादाप. पानुग्रहपूतपृष्ठम् । निकुम्भस्य मित्रं निकुम्भभित्रम् , तत् निकुम्भमित्रम् । अभिल-नन्दि नमारोढुमिच्छोः शिवस्य चरणदानेन शुद्धपृष्ठभाग निकुम्भमित्रं कुम्भोदरं नाम शिवसेवक मां विद्धि । हिन्दी-कैलास पर्वत के समान सफेद बल पर चढ़ने की इच्छा रखने वाले, आठ (भूमि-जलतेज-पवन-आकाश-सूर्य-चन्द्र-सोमयाजो) हैं मूर्ति जिनकी एसे शिव भगवान् का मेरे ऊपर जो चरण रखना, तद्रप अनुग्रह से पवित्र पीठ वाले, निकुम्भ के मित्र मुझको कुम्भादर नाम से विख्यात् शिव का गप समझो।। ३५ ।। अमुं पुरः पश्यसि देवदारं पुत्रीकृतोऽसौ वृषमध्वजेन । यो हेमकुम्भस्तननि:रसूतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ ३६ ॥ सीविनी-पुरोऽग्रतोऽमुं देवदारु पश्यसि । इति काकुः । असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे चिः । यो देवदारुः स्कन्दस्य भातुर्गीर्या हेम्नः कुम्भ एव स्तनः तस्मान्निःसूतानां पयसामम्बूना रसः स्वादशः स्कन्दपक्षे हेमकुम्भश्व स्तन इति विग्रहः, पयसां क्षीराप्पाम् । 'पयः क्षीरं पयाऽम्बु च' इत्यमरः। स्कन्दसमानप्रमास्पदमिति भावः ।। ३६ ॥ अन्वयः-पुरः, अमुम् , देवदारु, पश्यसि, असो, वृषभध्वजेन, पुत्रीकृतः, यः, स्कन्दस्य, मातुः, हेमकुम्भस्तननिःसूतानां पयतां, रसशः अस्तीति शेषः। वाच्य०-स्वया, अमौ देवदारुः दृश्यते, अमुं, वृषभध्वजः पुत्रीकृतवान् , येन रसशेन भूयते । व्याख्या--पुरः = अग्रे, अमुं = दृश्यमानं देवदारु = देवदारुनामकं वृक्षं, पश्यसि = अवलोकयति, असौ = देवदारुः वृषभो ध्वजे यस्य स तेन वृषभध्वजेन - शिवेन, अपुर: पुत्र : कृत इति पुत्रीकृतः-पुत्रत्वेन स्वीकृतः, यः = देवदारुः, स्कन्दस्य = कार्तिकेयस्य, मातुःपार्वत्याः, हेम्नः सुवर्णस्य कुम्मः=घटः, हेमकुम्भ एव स्तनः = कुचः, तस्मात् , नि:स्तानि=निर्गतानि, तेषान्तथोक्तानाम् , पयसा = जलाना, स्कन्दपक्षे-हेमकुम्भ इव स्तनः तस्मात् निःसृतानाम् , पयसा=क्षीराणां = दुग्धानामित्यर्थः, रसं = स्वादं जानातीति रसशः= स्वादशः, अस्तीति शेषः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy