SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः यस्य सः, तथोक्तः "सन्”, चित्रे = आलेख्ये, अपितः=लिखितः, आरम्भः = बाणनिष्कासनोयोगः, यस्य स तथोक्तः. इव = यथा, अवतस्थे = अवस्थितोभूत् । समा०-वामाद् इतरः वामेतरः, नखानां प्रभा: नवप्रभाः, नखप्रमामिः भूषितानि नखप्रमामूषितानि, कङ्कस्य पत्राणि कङ्कपत्राणि, नखप्रमाभूषितानि कङ्कपत्राणि यस्य सः नग्वप्रमाभूषितकङ्कपत्रः, तस्मिन् नखप्रमाभूषितकङ्कपत्रे । सायकस्य पुतः सायकपुङ्खः, तस्मिन् सायकपुढे । सक्ताः अङ्गुलयो यस्य सः सक्ताङ्गुलिः । चित्रे अपितः चित्रापितः, चित्रापित: आरम्भो यस्य सः चित्रापितारम्मः । अमि०-प्रहर्तुमिच्छया निषङ्गात् शरोद्धर्तुकामस्य राशो दक्षिणकरः बापमूले एव सक्ताङ्गलि: अमवत् , अतः चित्रपटे लिखितं वस्तु यथा निश्चेष्टं दृश्यते तथैवायमपि तदानां स्थितोऽवलोक्यते स्म । हिन्दी-सिंह के ऊपर प्रहार करने की इच्छा रखनेवाले राजा दिलीप का दाहिना हाथ, अपने नख की कान्ति से भूषित, कंकपक्षी के पंख जिप्समें लगे हुए हैं ऐसे बाण के मूल में ही अंगुलियों सट. बाने से चित्र में लिखित बाण निकालने के उद्योग में लगे हुए के समान हो गया ॥ ३१ ॥ बाहुप्रतिष्टम्मविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशभिः । राजा स्वतेजोभिरदह्यतान्तर्मोगीव मन्त्रौषधिरुद्धवीर्यः ॥ ३२ ॥ सञ्जीविनी-बाह्रोः प्रतिष्टम्मेन प्रतिबन्धेन । 'प्रतिबन्धः प्रतिष्टम्मः' इत्यमरः । विवृद्धमन्युः प्रवृद्धरोषो राजा। मन्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिमोंगी सर्पवभोगी राजभुजङ्गयोः' इति शाश्वतः। अभ्यर्णमन्तिकम् । 'उपकण्ठान्तिकाभ्याभ्यग्रा अप्यभितोऽव्ययम्' इत्यमरः। आगस्कृतम. पराधकारिणमस्पृशद्भिः स्वतेजोभिरन्तरदधत । 'अधिक्षेपाचसहनं तेजः प्रापात्ययेष्वपि' इति यादवः ।। ३२ ।। अन्वयः-बाहुप्रतिष्टम्भविवृद्धमन्युः, राजा, मन्त्रौषधिरुद्धवीर्यः, भोगी, इव, अभ्यर्थम् , आगस्कृतम् अस्पृशद्भिः, स्वतेजोभिः अन्तर् , अदधत । वाच्य-रानानम् , मन्त्रौषधिरुद्धवीर्य भोगिनमिव अभ्यर्षमागस्कृतमस्पृशन्ति स्वतेजासि. अन्तरदहन् । व्याख्या-बाह्वोः= भुजयोः, प्रतिष्टम्भः = प्रतिबन्धः, तेन विवृद्धः- प्रवृद्धः, मन्युः क्रोधो यस्यासो, बाहुप्रतिष्टम्भत्रिवृद्धमन्युः, राजा= दिलीपः, मंत्रश्च =सर्पविषनिवारकमंत्रः, ओषधिः = भैषज्यं चेति मंत्रौषधी, ताभ्यां रुद्धं = प्रतिबद्धं, वीर्य = बलं यस्यासौ मंत्रौषधिरुद्धवीर्यः, 'वीर्य बले प्रभावे च' इत्यमरः। भोगः=फणा, अस्यास्तीति भोगी = सर्पः, श्व= यथा, अभ्यर्णम् = उपकण्ठम् = समोप. मित्यर्थः आगः = अपराध करोनीति आगस्कृत् तम् आगस्कृतम् अस्पृशद्भिः=न स्पृशद्भिः, स्वस्य = आत्मनः, तेजांसि = प्रभावाः, तैः स्वतेजोमिः, अन्तर् = मध्ये, अदह्यत = अतप्यत । समा०-बाहोः प्रतिष्टम्मः बाहुप्रतिष्टम्भः, बाहुप्रतिष्टम्मेन विवृद्धः भन्युः यस्य सः बाहुप्रतिष्टम्मविवृद्धमन्युः । मन्त्रन औषधिश्च मन्त्रौषधी, मन्त्रौषधिभ्यां रुद्धं वीर्य यस्य सः मन्त्रौषधिरुद्धवीर्यः। मोगः अस्यास्तीति मोगी। आगः करोतीति आगस्कृत् , तम् आगस्कृतम् । न स्पृशन्तीति अस्पृशन्ति, तैः अस्पृशद्भिः। स्वस्य तेजांसि स्वतेजासि, तैः स्वतेजोभिः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy