SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ २८ रघुवंशमहाकाव्ये इत्यमरः । वध्यस्व वधार्हस्य । “दण्डादिभ्यो यः” इति यप्रत्ययः। मृगेन्द्रस्य वधाय निषङ्गास्तूणीरात् । तूणोपासङ्गतूपीर निषङ्गा इषुधियोः' इत्यमरः । शरमुद्धर्तुमैच्छत् ॥ ३० ॥ ___ भन्वयः-ततः, मृगेन्द्रगामी, शरण्यः, प्रसमोद्धृतारिः, नृपतिः, जाताभिषङ्गः, ( सन् ), वध्यस्य, मृगेन्द्रस्य, वधाय, निषङ्गात्, शरम् , उद्धर्तुम् , ऐच्छत् । वाच्य०-नृपतिना जाताभिषंगेण “सता" शरम् , उद्धर्तुभैष्यत। व्याख्या-तत:=सिंहदर्शनानन्तरम् , मृगेन्द्रः=सिंहः, स, इव, गच्छति = यातीति, मृगेन्द्रगामी=सिंहगामी, शरणे साधुः शरण्यः = शरणागतपालकः, प्रसमेन = बलात्कारेण ,उद्धृता:- विनाशिताः, अरयः = शत्रवो येन सः, तथोक्तः नृपतिः = राजा दिलीपः, जातः = उत्पन्नः, अभिषङ्गःपराभवः, यस्य सः जाताभिषङ्गः "सन्" वधमहतीति वध्यस्तस्य वध्यस्य = वधार्हस्य,मृगेन्द्रस्य =सिंहस्य, वधाय = नाशाय, निषंगात् = तूणोरात् , शरं = वायम् , उद्धर्तुम् = उत्क्षेप्तुम्-निष्कासयितुभित्यर्थः, ऐच्छत् = इयेष। समाळ-मृगेष इन्द्रः मृगेन्द्रः, मृगेन्द्र इव गच्छतीति मृगेन्द्रगामी। शरणे साधुः शरण्यः । प्रसमेन उद्धृताः, प्रमोद्धृताः, प्रसभोद्धृताः परयो येन सः प्रसमोद्धृतारिः। नृणां पतिः नृपतिः। जातः अभिषङ्गः यस्य सः जाताभिण्ङ्गः । वधम् अहंतीति वभ्यः । अमि०-शत्रूणां समूलमुन्मूलयिता राजा दिलाप: सिंहाक्रान्ता नन्दिनी विलोक्य तद्रक्षकस्यात्मनः परामवं च मत्वा तत्क्षण एव सिहवधाय तूणीरात शरं निष्कालितुमच्छत् । हिन्दी-सिंह को देखने के पश्चात् मृगेन्द्र की तरह चलने वाले एवं शरणागतों की रक्षा करने में निपुण, बलपूर्वक शत्रुओं को उच्छिन्न करनेवाले, अपमान पाये हुए राजा दिलीप ने, दुष्ट सिंह को मारने के लिये तरकश से बाण को निकालने की इच्छा को ॥ ३० ॥ वामेतरस्तस्य करः प्रहर्तु खप्रमाभूषितकङ्कपत्रे । सक्तांगुलिः सायकपुंख एव चित्रार्पितारम्म इवावतस्थे ॥ ३१ ॥ साविनी-प्रहस्तिस्य वामेतरो दक्षिणः करः। नखपभाभिभूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन् । 'कङ्कः पक्षिविशेषे स्याद् गुप्ताकार युधिष्ठिरे' इति विश्वः । 'ककस्तु कर्कटः' इति यादवः । सायकस्य पुख एव कर्तर्याख्ये मूलप्रदेशे । 'कती पुं.' इति यादवः । मक्ताङ्गुलिः सन् । चित्रापितारम्भश्चित्रलिखतशोधर प्योद्योग इत्र अवतस्थे ॥ ३१ ॥ अन्वयः-प्रहतुः, तस्य, वामेतरः, करः, नवप्रभाषितकङ्कपत्र, सायकखे, एव भक्तांगुलिः "सन्" चित्रापितारम्भः, इत्र, अवतस्थे ।। वाच्य०-वामेतरेण करेण सनांगुलिना "सता" चित्रापितारम्मेण, वावतस्थे । व्याख्या-प्रहर्तुः = ताडयितुः, तस्य = राज्ञो दिलीपस्य, वामात् , इतरः, वामेतरः = दक्षिणः, करः = हस्तः, नखाना = कररुहाणां, प्रभाः कान्तयः, नखपभास्ताभिः, भूषितानि = विच्छुरितानि सुशोभितानि, कङ्कस्य = पक्षिविशेषस्य, पत्राणि = पक्षा यस्य सः, नखपमाभूषितकङ्कपत्रः, तस्मिन् तयोक्ते, सायकस्य = बाणस्य, पुतः = मूलम् , तस्मिन् सायकपुझे एव, सक्ताः- संलग्नाः, अंगुलयः = करशाखाः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy