SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः राजा दिलीप की हिमालय की सुन्दरता देखने में लगी हुई दृष्टि को इस प्रकार अपनी भोर फेर दिया जिस प्रकार लगाम पकड़ कर सारथि घोड़े आदि को फेर लेते हैं ।।२।। स पाटलायर्या गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोधगुमं सानुमतः प्रफुल्लम् ॥२९॥ संजीविनी-धनुर्धरः स नृपः पाटकायां, रक्तवर्णायां गवि तस्थिसं स्थितम् , "क्वसुश्च" इति क्वाप्रत्ययः । केसरिणं सिंहम् । सानुमतोऽद्रेः। धातोगरिकस्य विकारो धातुमयो । तस्यामधित्यकायामूवमूमौ । 'उपत्यकानेरासन्ना भूमिर्ध्वमधित्यका' इत्यमरः । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति स्वकन्प्रत्ययः। प्रफुल्लो विकसितस्तम् । “फुल्ल विकसने" इति धातोः पचायच् । 'प्रफुल्तम्' इति तकारपाठे प्रिफला विशरणे इति धातोः कर्तरि क्तः, "उत्परस्यातः" इत्युकारादेशः । लोधाख्यं दुममिव ददर्श ॥२६॥ अन्धयः-धनुर्धरः, सः पाटलायां, गवि, तस्थिवांसं, केसरिणं, सानुमतः, भातुमग्यां, अधित्यकायां, प्रफुल्लम् , लोध्रद्रुमम् , इव, ददर्श। वाच्य०-धनुर्धरेण, तेन, केमरी, लोध्रद्रुमः, इव, ददृशे । व्याख्या-धनुषः धर इति धनुर्धरः= चापधरः, सः=राना दिलीपः,पाटलायाम् = श्वेतरक्तवर्षायाम् 'श्वेतरक्तस्तु पाटलः ।' इत्यमरः । गवि = धेनौ, तस्थिवांसं = स्थितम् , केसरिणम् = सिंह, सानूनि, सन्ति, अस्यासौ सानुमान् , तस्य सानुमतः अद्रेः पर्वतस्येत्यर्थः, धातोः गैरिकस्य विकारः धातुमयी तस्यां, धातुमच्या-गैरिकवत्याम् , अधित्यकायाम् = अर्श्वभूमौ, प्रफुल्लं - विकसितं, लोध्रश्चासौ द्रुमश्च इति लोध्रद्रुमस्त लोध्रद्रुमं लोध्रवृक्षम् , इव =यथा, ददर्श = अपश्यत् । समा०-धरतीति धरः, धनुष: धरः धनुर्धरः । केसरः अस्यास्तीति केसरी, तं केसरिणम् । सानव:: सन्तीति सानुमान् , तस्य सानुमतः। धातोः विकारः धातुमयी, तस्यां धातुमय्याम् । लोध्रस्य द्रुमः अस्य लोधद्रुमः तं लोध्रद्रुमम् ! अमि०-राजा दिलोप: श्वेतरक्तवर्णायां गवि, आक्रम्य स्थितं केसरिणम् , पर्वतस्य गैरिकपातुमय्यामूर्ध्वभूमौ विकसितं लोध्रद्रुममिवापश्यत् । हिन्दी-धनुषधारी उस राजा दिलीप ने श्वेतयुक्तलालवर्णवाली नन्दिनी के ऊपर बैठे हुए सिंह को पर्वत की गेरूवाली अधित्यका (ऊपर को भूमि ) में विकसित लोध्र नामक वृक्ष की मांति देखा ॥ २९ ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसमोद्धतारिः ॥ ३० ॥ सन्जीविनी-ततः सिंहदर्शनानन्तरं भृगेन्द्रगामी सिंहगामी । 'शरणं गृहरक्षित्रोः' इत्यमरः । 'शरणं रक्षषे गृहे' इति यादवः। शरणे साधुः शरण्यः। "तत्र साधुः" इति यत्प्रत्ययः। प्रसमेन बलात्कारेप्पोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो बातपरामवः सन्। अमिषनः परामकः'
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy