SearchBrowseAboutContactDonate
Page Preview
Page 1371
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः ४९७ व्याख्या-भिषज्यन्ति =रोगं जयन्तीति भिषजस्तेषां भिषजां = वैद्यानाम् आशृणोति, आश्रवः= वचने स्थितः, न आश्रवः अनाश्रवः = वचने न स्थितः, अविधेय इत्यर्थः । सः = राजा अग्निवर्णः, दृष्टः = अवलोकितः ज्ञात इत्यर्थः। दोषः = वातपित्तकफजन्यो रोगः यस्मिन् तत्दृष्टदोषं =रोगादिजनकमित्यर्थः । तत् = स्त्रीमद्यादिकं संगस्य =संसर्गस्य वस्तु, इति संगवस्तु तत् , स्त्रीमद्यादिकं संगजनकं वस्तु न अत्यजत् =न त्यक्तवान् । तथाहि इन्द्रियाणां = चक्षुरादीनां गणः=समूहः इति इन्द्रियगणः, स्वदन्ते इतिस्त्रादूनितैः । स्वादुभिः = इष्टः मनोज्ञः “इष्टमयुरौ स्वादू"इत्यमरः । “स्वादु इष्टमनोज्ञयोः" इति च मेदिनी । विसिन्वन्ति = निबन्नन्ति,इन्द्रियाणीति विषयाः = रूपरसादयस्तैः विषयः हृतः-आकृष्टः तु विषयाकृष्टचित्त इत्यर्थः । चेत्तदा ततः = विषयेभ्यः दुःखं - कष्टेन निवार्यते = निवारयितुं शक्यते यदि निवायेंत, अन्यथा तु दुस्त्यजाः भोगाः खलु इति भावः। समासः-दृष्टः दोषः यस्मिन् तत् दृष्टदोषं तत् । संगस्य वस्तु संगवस्तु, तत् । इन्द्रियागां गण इति इन्द्रियगणः। हिन्दी-वैद्यों की बात को न मानने वाले उस अग्निवर्ण ने, कामवासना को उत्तेजित करने वाली उस वस्तु को नहीं छोड़ा। जिसके कि अनर्थकारी दोषों को वह जानता था । ठीक ही है। क्योंकि शुरू में अच्छे लगने वाले विषय भोगों से आकृष्ट हुई इन्द्रियों को उनसे रोकना कठिन हो जाता है। अर्थात् एक बार विषय सुखां में फँसकर फिर उससे निकलना बहुत कठिन है ॥ ४९ ॥ तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥ ५० ॥ तस्य राज्ञः पाण्डुवदना। अल्पभूषणा परिमिताभरणा सावलम्ब दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना । मुदुस्वना हीनस्वरा । राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः तेन या परिहानिः क्षीणावस्था सा। कामयते विषयानिच्छति कामयानः कमेणिङन्ताच्छानच् । 'अनित्यमागमशासनम्' इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि-कामयानशब्दः सिद्धोऽनादिश्च' इति । तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययौ प्राप। कालकृतो विशेषोऽवस्था । 'विशेषः कालिकावस्था' इत्यमरः । अन्वयः-तस्य पाण्डुवदना अल्पभूषणा सावलम्बगमना मृदुस्वना, राजयक्ष्मपरिहानिः कामयानसमवस्थया तुलाम् आययौ । व्याख्या-तस्य =राज्ञोऽग्निवर्णस्य वदन्त्यनेनेति वदनं = मुखं, मुखोपलक्षितत्वात् शरीरमपि वदनमिति । पाण्डु =पीतं वदनं = शरीरं यस्यां सा पाण्डुवदना अल्पानि = परिमितानि भूषणानि = आभरणानि यस्यां सा अल्पभूषणा अवलम्बन = अवष्टम्भेन सहितमिति सावलम्बम् = परिजनहस्तादिसहितं गमनं = चलनं यस्यां सा सावलम्बगमना मृदुः=मन्दः-क्षीणः स्वनः = स्वरः यस्यां सा मृदुस्वना राज्ञः = सोमस्य यक्ष्मा क्षयरोगः इति राजयक्ष्मा, तेन या परि
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy