SearchBrowseAboutContactDonate
Page Preview
Page 1370
Loading...
Download File
Download File
Page Text
________________ ४९६ रघुवंशे प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः । रतिरागसंभव आमयो व्याधिस्तु । क्षयरोग इत्यर्थः । दक्षस्य दक्षप्रजापतेः शापश्चन्द्रमिव । अक्षिणोदकर्शयत् । शापोऽपि रतिरागसंभव इति । अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप । स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ॥ अन्वयः-प्रमत्तम् अपि तं प्रभावतः अन्यपार्थिवाः आक्रमितुं न शेकुः रतिरागसम्भवः आमयः तु दक्षशापः चन्द्रम् इव अक्षिणोत् । व्याख्या-प्रकर्षेण मत्तः प्रमत्तस्तं प्रमत्तम् = विषयासक्तम् अपि तं = राजानं भवत्यनेनेति भावः प्रकृष्टो भावः प्रभावः प्रभावात् इति प्रभावतः= प्रतापादित्यर्थः अन्ये च ते पार्थिवाः = भूपालाः इति अन्यपार्थिवाः आक्रमितुम् = तिरस्कर्तुम् , अभिभवितुं न शेकुः = न समर्थाः अभूवन्। किन्तु-रतौ = सम्भोगे रागः=प्रेम प्रणयोन्मादः इति रतिरागः तस्मात् सम्भवः= उत्पत्तिः यस्य स रतिरागसम्भवः,आमम् =अपक्वमलं यान्त्यनेति आमयः=रोगः क्षयरोग इत्यर्थः। तु दक्षस्य = प्रजापतेः शापः = अभिशापः इति दक्षशापः चन्द्रं = शशिनम् इव = यथा अक्षिणोत् = अक्षेणीत् । दक्षस्य शापोऽपि चन्द्रम्पति रतिरागसम्भव एवेति । समासः-अन्ये च ते पार्थिवाः अन्यपार्थिवाः। रतौ रागः रतिरागस्तस्मात् सम्भवो यस्य स रतिरागसम्भवः । दक्षस्य शापः दक्षशापः । प्रकर्षेण मत्तस्तं प्रमत्तम् । हिन्दी-विषयों में सर्वदा लिप्त होते हुए भी, उसके प्रभाव के कारण दूसरे राजा अग्निवर्ण के ऊपर आक्रमण करने में समर्थ नहीं हो सके। किन्तु जिस प्रकार दक्षप्रजापति के शाप ने चन्द्रमा को क्षीण कर दिया था उसी प्रकार अतिभोगविलास से उत्पन्न रोग ने उसे क्षीण कर दिया। अर्थात् उसे क्षय रोग हो गया। विशेषः-दक्षकन्याएँ चन्द्रमा से विवाही गई थीं। चन्द्रमा रोहिणी से ही सदा प्रेम तथा सम्भोग करता था। और अन्यकन्याओं की उपेक्षा करता था। अतः कुद्ध होकर दक्ष ने शाप दे दिया था। इससे चन्द्र को क्षयरोग हो गया था। वह अब भी चन्द्र को क्षीण करता है ॥ ४८॥ दृष्टदोषमपि तन सोऽत्यजत्सङ्गवस्तु मिषजामनाश्रवः । स्वादुमिस्तु विषयह॒तस्ततो दुःखमिन्द्रियगणो निवार्यते ॥ १९ ॥ भिषजां वैद्यानामनाश्रवो वचसि न स्थितः । 'वचने स्थित आश्रवः' इत्यमरः । अविधेय इत्यर्थः । स दृष्टदोषमपि । रोगजननादिति शेषः । तत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत् । तथाहि । इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते । यदि वार्यतेति शेषः । दुस्त्यजाः खलु विषया इत्यर्थः ।। ___ अन्वयः-भिषजाम् अनाश्रवः सः दृष्टदोषम् अपि तत् संगवस्तु न अत्यजत् इन्द्रियगणः स्वादुभिः विषयः हृतः तु ततः दुःखं निवार्यते ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy