SearchBrowseAboutContactDonate
Page Preview
Page 1357
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः ४८३ व्याख्या–युवा =तरुणः सः अग्निवर्णः शक्नोतीति शकः, शक्रमतिक्रम्येति अतिशकं शोभते तच्छोल: अतिशक्रशोभी तं अतिशकशोभिनं शक्रादपि अधिकशोभावन्तमित्यर्थः। दर्प. णस्य = आदर्शस्य तले तिष्ठतीति दर्पणतलस्थस्तं दर्पणतलस्थं दर्पणे संक्रान्तप्रतिबिम्बम् आत्मनः = स्वस्य राशः वेषः= नेपथ्यमिति राजवेषस्तं राजवेषं प्रेक्ष्य = अवलोक्य तथा = तेन प्रकारेण न पिप्रियेन प्रीतोऽभूत् , यथा=येन प्रकारेण लक्ष्यतेऽनेनेति लक्ष्म, व्यक्तानि = स्पष्टानि लक्ष्माणि चिह्नानि यस्य तत् व्यक्तलक्ष्म, परिभोगस्य = सम्भोगस्य मण्डनं=भूषणं शोभा, इति परिभोगमण्डनं तत् प्रेक्ष्य = अवलोक्य पिप्रिये=प्रसन्नो जातः । अतीव कामी सः आसीदित्यर्थः। समासः-शक्रमतिक्रम्य शोभी, इति अतिशक्रशोभी तम् अतिशक्रशोभिनम् । राशः वेषस्तं राजवेषम् । दर्पणस्य तलस्थः इति दर्पणतलस्थस्तं दर्पणतलस्थम् । व्यक्तानि लक्ष्माणि यस्य तत् व्यक्तलक्ष्म । परिभोगस्य मण्डनमिति तत् परिभोगमण्डनम् । हिन्दी-नवयुवक वह राजा अग्निवर्ण, इन्द्र के वस्त्रों से भी अधिक सुन्दर अपनी राजसी वेष भूषा को शीशे में देखकर वैसा प्रसन्न नहीं होता था, जैसा कि स्पष्ट चिह्नों वाले सम्भोग के भूषण को देखकर प्रसन्न होता था। अर्थात् अपने शरीर तथा वस्त्रों पर सम्भोग के स्पष्ट निशान देखकर वह बहुत प्रसन्न होता था, कामी होने के कारण ॥ ३० ॥ मित्रकृत्यमपदिश्य पार्श्वतः प्रस्थितं तमनवस्थितं प्रियाः। विद्म हे शठ पलायनच्छलान्यालेति रुरुधुः कचग्रहैः ॥ ३१ ॥ मित्रकृत्यं सुहृत्कार्यमपदिश्य व्याजीकृत्य पार्वतः प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्ण प्रियाः, हे शठ हे गूढविप्रियकारिन् । 'गूढविप्रियकृच्छठः' इति दशरूपके । तव पलायनस्य छलान्यजसा तत्त्वतः । 'तत्त्वे त्वद्धाञ्जसा द्वयम्' इत्यमरः । विद्म जानीम। 'विदो लटो वा' इति वैकल्पिको मादेशः । इति । उक्त्वेति शेषः। कचग्रहै: केशाकर्षण रुरुधुः । अत्र गोनीयः-'ऋतुस्नाताभिगमने मित्रकायें तथापदि । त्रिष्वेतेषु प्रियतमः क्षन्तव्यो वारगम्यया ॥' इति । विरक्तलक्षणप्रस्तावे वात्स्यायनः-'मित्रकृत्यं चापदिश्यान्यत्र शेते' इति ॥ अन्वयः-मित्रकृत्यम् अपदिश्य पार्श्वतः प्रस्थितम् अनवस्थितं तं प्रियाः, हे शठ ! पलायनच्छलानि अञ्जसा विद्म इति ( उक्त्वा ) कचग्रहैः रुरुधुः। व्याख्या–मित्राणां = सुहृदां कृत्यं = कार्यमिति मित्रकृत्यम् अपदिश्य = व्यपदिश्य-सुहृदां कार्यमस्ति इति व्याजेनेत्यर्थः। पार्थात् इति पार्श्वतः=समीपतः प्रस्थितं = यान्तम् अन्यत्र यातुं तत्पर मित्यर्थः। न अवस्थितः अनवस्थितस्तम् अनवस्थितम् = स्थातुमसमर्थम् तम् =अग्निवर्णम् , प्रियाः= प्रणयिन्यः शठतीति शठः तत्सबुद्धौ हे शठ= हे धूर्त ! तव पलायनस्य = अन्यत्र गमनस्य छलानि=व्याजान् ,इति पलायनच्छलानि अञ्जसा= तत्वतः विद्म = जानोम वयमिति शेषः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy