SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ रघुवंशे पादयोः स्वकोययोय॑स्ते पादतले यस्मिंस्तत् । निशात्यये विसगों विसृज्य गमनं तत्र यच्चुम्बनं तत्प्रार्थयन्त । 'दुधाच्-' इत्यादिना द्विकर्मकत्वम् । अत्र गोनर्दीयः-‘रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः' इति ॥ __अन्वयः-प्रियाः शयनोत्थितं कण्ठसक्तमृदुबाहुबन्धनम् अग्रपादयोः न्यस्तपादतलं निशात्ययविसर्गचुम्बनं प्रार्थयन्त । व्याख्या-प्रीणन्तीति प्रियाः = वल्लभाः शयनात् = शय्यायाः उत्थितः= इति शयनोत्थितस्तं शयनोत्थितं-निद्रां विहाय पर्यकादुत्थितमित्यर्थः । तम् = राजानम्-अग्निवर्ण बाहुभ्यां = भुजाभ्यां बन्धनं = वेष्टनमिति बाहुबन्धनं मृदु = कोमलं च तद् बाहुबन्धनमिति मृदुबाहुबन्धनं कण्ठे = गले सक्तम् = अपितं मृदुबाहुबन्धनं यस्मिन् तत् कण्ठसक्तमृदुबाहुबन्धनम् , अग्रौ= श्रेष्ठौ पादौ= चरणौ इति अग्रपादौ तयोः अग्रपादयोः-स्वीयचरणयोः न्यस्ते = स्थापिते पादयोः = चरणयोः तले यस्मिन् तत् न्यस्तपादतलम् = स्थापितचरणाधोभागम् । नितरां श्यति = तनूकरोति व्यापारान् इति निशा निशायाः = रात्रेः अत्ययः = अन्तः, निशात्ययः तस्मिन् विसर्गः = त्यागः प्रियाः परित्यज्य गमनमित्यर्थः । तत्र निशात्ययविसर्गे यत् चुम्बनं-मुखसंयोगः इति निशात्ययविसर्गचुम्बनं तत् प्रार्थयन्त =प्रार्थयन्ति स्म । चौरादिकार्थधातोः लङः रूपमिदम् प्रार्थयन्त इति। समासः-शयनात् उत्थितस्तं शयनोत्थितम् । अग्रौ च तौ पादौ अग्रपादौ तयोः अग्रपादयोः। न्यस्ते पादयोः तले यस्मिन् तत् न्यस्तपादतलम् । बाहुभ्यां बन्धनमिति बाहुबन्धनम् मृदु च तत् बाहुबन्धनमिति मृदुबाहुबन्धनम् , कण्ठे सक्तं मृदुबाहुबन्धनं यस्मिन् तत् कण्ठसक्तमृदुबाहुबन्धनम् , तत् । निशायाः अत्ययः निशात्ययः, तत्र विसर्गः इति निशात्ययविसर्गः, तत्र यत् चुम्बनमिति, तत् निशात्ययविसर्गचुम्बनम् । हिन्दी-प्रातःकाल ( जाते समय ) पलंग से उठे, राजा अग्निवर्ण से उनकी स्त्रियाँ प्रार्थना करती थीं, कि गले में कोमल बाहुपाश डाले हुए, और अपने पैर के पंजों पर पैर के तलवे रखकर रात की समाप्ति ( बीत जाने ) पर बाहर जाते समय चुम्बन देते हुए बिदाई लेता जाये तो ठीक है ॥ २९ ॥ प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोमिनम् । पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥ ३० ॥ युवा सोऽग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशकशोभिनं दर्पणतलस्थं दर्पणसंक्रान्तमात्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्न परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥ अन्वयः-युवा सः अतिशक्रशोभिनं दर्पणतलस्थम् आत्मनः राजवेषम् प्रेक्ष्य तथा न पिप्रिये, यथा व्यक्तलक्ष्म परिभोगमण्डनं प्रेक्ष्य पिप्रिये।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy