SearchBrowseAboutContactDonate
Page Preview
Page 1358
Loading...
Download File
Download File
Page Text
________________ ४८४ रघुवंशे इति = एवमुक्त्वा कचानां = केशानां ग्रहाः= आकर्षणानि तैः कचग्रहैः = केशान् गृहीत्वा रुरुधुः=वारयामासुः। समासः-मित्राणां कृत्यमिति मित्रकृत्यम् तत् । न अवस्थितः अनवस्थितः तम् अनवस्थितम् । पलायनस्य छलानि पलायनच्छलानि तानि । कचानां ग्रहाः कचग्रहास्तैः कचग्रहः ।। हिन्दी-"जब कभी रानियों से ऊबकर किसी प्रेमिका के पास जाने को राजा की इच्छा होती तो" मित्र के कार्य का बहाना करके रानी के पास से उठकर किसी दूसरी प्रेमिका के पास जाने को तैयार तथा रुकने में असमर्थ राजा अग्निवर्ण से उसकी रानियाँ, हे धूर्त ! तुम्हारे मित्र के पास जाने के बहाने को हम भली प्रकार जानती हैं। यह कहकर और बाल पकड़ कर रोकती थीं ॥ ३१॥ तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः । अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ ३२ ॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङ्गनविशेषमपदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यरत वक्षःस्थले शेरते स्म । कण्ठसूत्रलक्षणं तु–'यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगृहात् । परिश्रमार्थ शनकैविंदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ॥' इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम् । तथा च'उरसि कमितुरुच्चैरादिशन्ती वराङ्गी स्तनयुगमुपधत्ते यत्स्तनालिङ्गनं तत्' इति ॥ अन्वयः-निर्दयरतिश्रमालसाः योषितः कण्ठसूत्रम् अपदिश्य पीवरस्तनविलुप्तचन्दनं तस्य बृहद्भुजान्तरम् अध्यशेरत। न्याख्या-निर्गता दया यस्यां सा निर्दया, निर्दया = निर्दयपूर्विका या रतिः =सम्भोगः तया तत्र वा यः श्रमः =खेदस्तेन अलसाः=मन्दाः आलस्यवत्यः इति निर्दयरतिश्रमालसाः योषितः= स्त्रियः कण्ठस्य सूत्रं, कण्ठे वा सूत्रमिति कण्ठसूत्रम् = आलिंगनासनविशेषम् अपदिश्य = व्याजीकृत्य कण्ठसूत्रस्य लक्षणं यथा-'यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगृहात् । परिश्रमार्थ शनकैविंदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः ॥' इदमेव च स्तनालिंगनासनमिति रतिरहस्ये । पीवरौ= स्थूलौ च तौ स्तनौ= कुचौ ताभ्यां विलुप्तं = प्रमृष्टं चन्दनम् = अंगरागो यस्य तत् पीवरस्तनविलुप्तचन्दनमिति तत् । तस्य = राज्ञोऽग्निवर्णस्य भुजयोः = बाह्वोः अन्तरं =मध्यमिति भुजान्तरं, बृहत् = विशालं चतत् भुजान्तरमिति बृहद्भुजान्तरं तत्। वक्षस्थले, इत्यर्थः । अध्यशेरत = स्वपन्ति स्म । __ समासः-निर्दया रतिः, निर्दयरतिः तत्र यः श्रमस्तेन अलसाः निर्दयरतिश्रमालसाः। पीवरौ च तौ स्तनौ पीवस्तनौ, ताभ्यां विलुप्तं चन्दनं यत्र तत् पोवरस्तनविलुप्तचन्दनम् तत् । बृहच्च तत् भुजयोः अन्तरमिति बृहद्भुजान्तरं तत् बृहद्भुजान्तरम् । हिन्दी-"राजा अग्निवर्ण के जब कभी” निर्दयता पूर्वक सम्भोग से हुई थकावट से आलस्य में भरी स्त्रियाँ कण्ठ सूत्र के बहाने ( स्तनालिंगन नामक प्रकार से ) मोटे-मोटे स्तनों
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy