SearchBrowseAboutContactDonate
Page Preview
Page 1349
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः महोक्षित=भूपालम् उत्सवस्य = महस्य = महोत्सवस्येत्यर्थः। विधिः = अनुष्ठानं तस्य छलं = व्याजस्तेन उत्सवविधिच्छलेन कृतः = सम्पादितः अर्थः= प्रयोजनं येन स कृतार्थस्तस्य भावस्तत्ता. तां कृतार्थतां =सफलतां निन्युः = प्रापयामासुः । कस्मादपि उत्सवव्याजात् राशा स्वकोयाभिलाषं कारयामासुरित्यर्थः। ___ समासः-प्रेम्णा गर्वितः प्रेमगविंतः स चासौ विपक्षस्तेन मत्सरः इति प्रेमगवितविपक्षमत्सरस्तस्मात् प्रेमगवितविपक्षमत्सरात् । उज्झिता रुट याभिस्ताः उज्झितरुषः। उत्सवस्य विधिस्तस्यछलं तेन उत्सवविधिच्छलेन । हिन्दी- 'जब राजा किसी रानी से प्रेम करता तो' वह रानी प्रिय के प्यार के कारण बड़ी गीली हो जाती थी। यह देखकर उसकी सौतें जल जाती थीं। तो उस जलने ( सौत की डाह ) से तथा कामातुर ( कामपीड़ित ) होने से वे रानियाँ क्रोध का परित्याग करके किसी उत्सव के काम के बहाने से राजा को अपने पास बुलाकर स्वयं कृतकार्य होती थीं। अर्थात् अपनी कामवासना को तृप्ति करती ( सम्भोग कराकर ) कृतार्थता को प्राप्त होती थीं ॥ २० ॥ प्रातरेत्य पारेभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥ २१ ॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना । दृशेय॑न्ताल्लयुट् । कृता खण्डनव्यथा यासां तास्तथोक्ताः। खण्डिता इत्यर्थः। तदुक्तम्-'शातेऽन्याग्नङ्गविकृते खण्डितेाकषायिता' इति । प्रणयिनीः प्राञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः तत्र शिथिलप्रयत्नः सन्नित्यर्थः पुनर दुनोत्पर्यतापयत् ॥ अन्वयः-सः प्रातः एत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः प्रणयिनीः प्राञ्जलिः प्रसादयन् तथापि प्रणयमन्थरः पुनः अदुनोत् । व्याख्या-सः राजाग्निवर्णः प्रातः सूर्यादयकाले एत्य = आगत्य नर्तकीनां समीपमागत्येत्यर्थः । परिभोगेन=सम्भोगेन शोभते तच्छीलः परिभोगशोभी तेन परिभोगशोभिना दर्शनेन = अवलोकनेन-सम्भोगचिह्नशोभिदर्शनेनेत्यर्थः । खण्डनस्य = ईष्याकषायस्य व्यथा=पीडा, इति खण्डनव्यथा, कृता= विहिता खण्डनव्यथा यासां ताः कृतखण्डनव्यथाः 'पार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः । सा खण्डितेति कथिता धीरैरीकिषायिता।' इत्युक्तलक्षणाः इत्यर्थः । प्रणयिनीः= प्रेयसीः प्रबद्धः अंजलियेन सः प्राञ्जलिः=बद्धाञ्जलिः प्रसादयन् = सम्मानयन् तथापि = तदपि प्रणयेन = नर्तकीगतप्रेम्णा मन्थरः= अलसः=मन्दः इति प्रणयमन्थरः = मन्दप्रयासः इत्यर्थः सन् पुनरदुनोत् = भूयः पर्यतापयत्। समासः-परिभोगेन शोभि इति परिभोगशोभि तेन परिभोगशोभिना। कृता खण्डनस्य व्यथा यासां ताः कृतखण्डनव्यथाः ताः तथोक्ताः। प्रणयेन मन्थरः प्रणयमन्थरः। प्रबद्धः अञ्जलियन सः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy