SearchBrowseAboutContactDonate
Page Preview
Page 1350
Loading...
Download File
Download File
Page Text
________________ ४७६ रघुवंशे हिन्दी-रात में बाहर दूसरी स्त्री के साथ सम्भोग करके राजा अग्निवर्ण प्रातः काल आकर ( लौटकर ) सम्भोग वाले सुन्दर वेषभूषा को देखने के कारण ( उसे देखकर ) खण्डिता की पीड़ा वाली अपनी प्रेमिकाओं को हाथ जोड़कर यद्यपि प्रसन्न कर लेता था। फिर भी रात की कमजोरी के कारण उन प्रेमिकाओं के साथ मन्द ढीला-ढाला पड़ जाने के कारण वे बड़ी दुःखी हो जाती थीं। उनकी इच्छा पूरी न कर पाता अतः वे व्याकुल हो उठती थीं। विशेष-दूसरी से सम्भोग करके आने वाले अपने प्रेमी को देखकर स्त्री ईर्ष्या से कड़वी हो जाती है । वही खण्डिता कही जाती है ॥ २१ ॥ स्वमकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् । प्रच्छदान्तगलिताश्रुबिन्दुमिः क्रोधभिन्नवलयैर्विवर्तनः ॥ २२ ॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं तमग्निवर्णम् । अवदन्त्य एव । त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव। प्रच्छदस्यास्तरणपटस्यान्ते मध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलम्बनः प्रत्यभैत्सुः प्रतिचक्रुः । तिरश्चक्रुरित्यर्थः ॥ अन्वयः-स्वप्नकीर्तितविपक्षं तम् अवदन्त्यः एव अङ्गनाः प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैः विवर्तनैः प्रत्यभैत्सुः । व्याख्या-स्वप्ने स्वप्नदर्शने-कीर्तितः = उच्चारितः विपक्षः सपत्नीजनः येन स तं स्वप्नकीर्तितविपक्षम् तम् = अग्निवर्णम् न वदन्त्यः = न ब्रुवन्त्य इति अवदन्त्यः = तेन सह सम्भाषणं न कुर्वन्त्य इत्यर्थः एव प्रशस्तानि अङ्गानि यासां ताः अङ्गनाः= स्त्रियः प्रच्छदति, प्रच्छद्यते वा प्रच्छदः, प्रच्छदस्य =आस्तरणवस्त्रस्य अन्तः = मध्यः तत्र गलिताः= पतिताः अथणाम् = अस्राणां बिन्दवः = कणाः येषु तैः प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधेन = कोपेन भिन्नानि = त्रुटितानि वलयानि = कङ्कणानि येषु तैः विवर्तनैः = पार्श्वपरिवर्तनैः प्रत्यभत्सुः= प्रतीकारं चक्रुः = चिरश्चक्रुरित्यर्थः । समासः-स्वप्ने कीर्तितः विपक्षो येन स तं स्वप्नकोतितविपक्षम् । न वदन्त्यः अवदन्त्यः। प्रच्छदस्य अन्तस्तत्र गलिताः अश्रूणां बिन्दवो येषु तैः प्रच्छदान्तगलिताश्रुबिन्दुभिः। क्रोधेन भिन्नानि वलयानि येषु तैः क्रोधभिन्नवलयः। हिन्दी-रात में सोते समय किसी सौत का नाम लेकर बड़बड़ाने वाले राजा अग्निवर्ण से बिना बोले ही उनकी स्त्रियाँ इस प्रकार करवट बदलकर मुँह फेरकर उसका तिरस्कार करती थीं, जिसमें कि पलंग पर बिछी चादर आँसुओं से भीग जाती और क्रोध के मारे उनके कंकण टूट जाते थे। अर्थात् सौतेली डाह से रूठकर करवट बदल कर रो रोकर आफत कर डालती थीं ॥ २२ ॥ क्लप्तपुष्पशयनाँल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy