SearchBrowseAboutContactDonate
Page Preview
Page 1348
Loading...
Download File
Download File
Page Text
________________ रघुवंशे अन्वयः--गृहिणीपरिग्रहात् नर्तकीषु असुलभासु सतीषु लौल्यम् एत्य अंगुलीशरणसन्नवर्तिकः सः तद्वपुः आलिखन् कथंचित् वर्तते स्म । व्याख्या--गृहमस्ति यासां ताः गृहिण्यः, गृहिणीभिः =भार्याभिः =राशीभिः परिगृहीतः = अवरुद्धः = समागमस्तस्मात् गृहिणीपरिग्रहात् हेतोः नृत्यन्तीति नर्तक्यस्तासु नर्तकीषु = लासिकासु = 'नर्तकीलासिके समे' इत्यमरः । वेश्यासु न सुलभाः असुलभाः तासु असुलभासु = दुर्लभासु सतीषु लोलस्य भावः कर्म वा लौल्यं =चाञ्चल्यम् =औत्सुक्यमित्यर्थः । एत्य = प्राप्य अंगुल्योः = करशाखयोः क्षरणं = स्वेदस्तेन सन्ना= खिन्ना =श्रान्ता वर्तिका = शलाका यस्य स अंगुलीक्षरणसन्नवर्तिकः सः राजा अग्निवर्णः तासां= नर्तकीनां वपुः= शरीरं तत् तद्वपुः उल्लिखन् चित्रितं कुर्वन् = चित्रनिर्माणं कुर्वन्नित्यर्थः। कथंचित् = केनापि प्रकारेण वर्तते स्म = अवर्तत। ___ समासः-गृहिणोभिः परिग्रहः गृहिणीपरिग्रहस्तस्मात् गृहिणीपरिग्रहात् । न सुलभाः असुलभास्तासु असुलभासु । अंगुल्योः क्षरणमिति अंगुलीक्षरणं तेन सन्ना वर्तिका यस्य सः अंगुलीक्षरणसन्नवर्तिकः। हिन्दी-महारानियों के द्वारा रोक लिये जाने के कारण नर्तकी वेश्याओं के न मिलने पर वह चंचल ( विरह से दुःखी ) हो जाता था। ( तब उत्सुकता मिटाने के लिये वह उनका चित्र बनाने लगता तब ) अंगुलि में पसीना आने से तूलिका ( ब्रुश ) खसक जाती थी राजा के हाथ से तब उस समय बड़ी कठिनता से वह चित्र बनाता था। अर्थात् बिरह विनोद के लिये राजा नर्तकी का चित्र बनाने लगता किन्तु सात्विक भाव के कारण (वेश्याओं की याद से) अंगुलियों में पसीना आने से तूलिका फिसल जाती थी॥ १९ ॥ प्रेमगर्वितविपक्षमत्सरादायताच मदनान्महीक्षितम् । निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥ २० ॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सरावैरादायतात्प्रवृद्धान्मदनाच्च हेतोर्देव्यो राज्य उज्झितरुषस्त्यक्तरोषाः सत्यस्तं महीक्षितमुत्सवविधिच्छलेन महोत्सवकर्मव्याजेन । कृतोऽर्थः प्रयोजनं येन स कृतार्थः तस्य भावस्तत्तां निन्युः । मदनमहोत्सवव्याजान्नीतेन तेन स्वमनोरथं कारयामासुरित्यर्थः ॥ अन्वयः-प्रेमगविंतविपक्षमत्सरात् आयतात् मदनात् च उज्झितरुषः देव्यः तं महीक्षितं उत्सवविधिच्छलेन कृतार्थतां निन्युः । व्याख्या-प्रेम्णा = स्नेहेन, स्वविषयकप्रियानुरागेण हेतुनेत्यर्थः, गर्वितः = संजातगर्वः यः विपक्षः = सपत्नीजनः, इति प्रेमगवितसपत्नीजनस्तत्र मत्सरः = वैरं तस्मात् प्रेमगर्वितविपक्षमत्सरात् आयम्यतेस्म, आयतते वा आयतम् तस्मात् आयतात् = दीर्घात्-प्रवृद्धात् मदनात् = कामात्मन्मथात् च कारणात् दीव्यन्तीति देव्यः = पट्टाभिषिक्ताः महिष्यः उज्झिता = परित्यक्ता रुट = क्रोधः याभिः ताः उज्झितरुषः सत्यः तं - राजानम् महीं क्षियति मह्यां क्षियति वा महीक्षित् तं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy