SearchBrowseAboutContactDonate
Page Preview
Page 1301
Loading...
Download File
Download File
Page Text
________________ भष्टादशः सर्गः ४२७ हिन्दी-आकाश में गन्धर्व जिसका यश गाते थे ऐसे यशस्वी नल राजा ने आकाश के समान सांवले शरीर वाले, नभ नाम के पुत्र को प्राप्त किया। अर्थात् नल को नभ पुत्र हुआ, जो कि प्रजा को वैसा ही प्यारा था, जैसे कि श्रावण का मास ॥ ७ ॥ तस्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वम् । मृगैरजयं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्ध ॥ ७ ॥ धर्मोत्तरो धर्मप्रधानः स नलः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम् । वार्धके चिकीर्षितमित्यर्थः। मृगैरजर्य तैः सह संगतम् । 'अजय संगतम्' इति निपातः । पुनरदेहबन्धाय पुनर्देहसंबन्धनिवृत्तये बबन्ध । मोक्षार्थ वनं गत इत्यर्थः । अदेहबन्धायेत्यत्र प्रसज्यप्रतिषेधेऽपि नन्समास इष्यते । अन्वयः-धर्मोत्तरः प्रभवे तस्मै तत् उत्तरकोसलानां प्रभुत्वं विसृज्य जरसा उपदिष्टं मृगैः अजय॑म् पुनः अदेहबन्धाय बबन्ध । व्याख्या-धर्मः= निःश्रेयसरूपः उत्तरः प्रधानः यस्य स धमोत्तरः = निःश्रेयसमुख्यः सः= नलः प्रकर्षेण भवतीति प्रभुः तस्मै प्रभवे =समर्थाय तस्मै नमोनामकपुत्राय तत् = प्रसिद्धम् कौ पृथिव्याम् सलन्तीति कोसलाः उत्तरे च ते कोसलाः जनपदाः तेषाम् उत्तरकोसलानां प्रभोः भावः कर्म वा प्रभुत्वं = स्वामित्वं विसृज्य = दत्त्वा जरसा = जरया वार्धक्येन उपदिष्टं = शिक्षितं-वृद्धत्वे चिकीर्षितमित्यर्थः। मृगैः = हरिणः सह न जीर्यतीति अजय = संगतं-सौहार्द पुनः = भूयः देहस्य = शरीस्य बन्धः=संबन्धः इति देहबन्धः, न देहबन्धः इति अदेहबन्धस्तस्मै अदेहबन्धाय = शरीरसंबन्धनिवृत्तये अपवर्गायेत्यर्थः बबन्ध । मोक्षार्थ वनं गत इत्यर्थः। समासः-उत्तरे च ते कोसलाः उत्तरकोसलास्तेषाम् उत्तरकोसलानाम् । धर्म उत्तरः यस्य सः धर्मोत्तरः । देहस्य बन्धः देहबन्धः, न देहबन्धः अदेहबन्धस्तस्मै अदेहबन्धाय । हिन्दी-धर्मात्मा धर्मप्राण राजा नल ने राज्य चलाने में समर्थ उस अपने पुत्र नभ को उत्तरकोसल ( अयोध्याप्रान्त ) का राज्य देकर, बुढ़ौती ( बृद्धावस्था ) के द्वारा बताई गई मृगों के साथ संबंध ( साथ रहना ) पुनः शरीर न धारण करने लिये बान्ध लिया। अर्थात् मुक्ति को सिद्ध करने के लिये समदर्शी हो, आश्रम में चले गये ॥ ७॥ तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव भिता श्रीः ॥ ८॥ तेन नभसा । द्विपानां पुण्डरीको दिग्गजविशेष इव । राशामजय्यो जेतुमशक्यः । 'क्षय्यजय्यौ शक्यार्थे' इति निपातनात्साधुः। पुण्डरीकः पुण्डरीकाख्यः पुत्रोऽजनि जनितः। पितरि शान्ते स्वर्गते सति । आहृतपुण्डरीका गृहीतश्वेतपद्मा श्रीर्य पुण्डरीकं पुण्डरीकाक्षं विष्णुमिव श्रिता ॥ अन्वयः-तेन द्विपानां पुण्डरीक इव राशाम् अजय्यः पुण्डरीकः अजनि । पितरि शान्ते सति आहृतपुण्डरीका श्रीः यं पुण्डरीकाक्षम् इव श्रिता।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy