SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ ४२६ रघुवंशे अन्वयः–अनलौजाः नलाभिधानः तस्य तनयः तदन्ते वंशश्रियं प्राप, नलिनाभवक्त्रः यः गजः नड्वलानि इव परेषां बलानि अमृद्नात् । व्याख्या–अनलः = अग्निरिव ओजः = तेजः यस्य सः अनलौजाः नल इति अभिधानं नाम यस्य स नलाभिधानः = नलनामकः तस्य =निषधस्य तनयः = पुत्रः तस्य = निषधस्य अन्ते= अवसाने तदन्ते वंशस्य = कुलस्य श्रीः राज्यलक्ष्मीः तां वंशश्रियं =रघुकुलराज्यलक्ष्मीमित्यर्थः प्राप = अवाप । नलिनरय = कमलस्य आभा इव आभा=कान्तिः यस्य तत् नलिनाभं वक्त्रं = मुखं यस्य स नलिनाभवक्त्रः यः= नल: गजः = हस्ती नडाः सन्ति येषु तानि नड्वलानि = नडबहुलस्थानानि इव = यथा परेषां = शत्रूणां बलानि = सैन्यानि अमृद्नात् = मदितवान् । समासः-अनलः इव ओजो यस्य सः अनलौजाः। तस्य अन्तस्तदन्तस्तस्मिन् तदन्ते। नल इति अभिधानं यस्य सः नलाभिधानः । वंशस्य श्रीः तां वंशश्रियम् । नलिनस्य आमेव आभा यस्य तत् नलिनाभं तत् वक्त्रं यस्य स नलिनाभवक्त्रः। हिन्दी-राजा निषध के पश्चात् अग्नि के समान तेजस्वी नल नामक निषध के पुत्र ने अपने कुल की राज्यलक्ष्मी को प्राप्त किया। जो कि कमल के समान सुन्दर मुख वाला था। और राजा नल ने शत्रुसेना का उसी प्रकार मर्दन किया, जिस प्रकार हाथी सरकण्डों के वन या समूह को तोड़ देता है, नष्ट भ्रष्ट कर डालता है ।। ५ ।। नमश्चरैर्गीतयशाः स लेभे नभस्तलश्यामतनुं तनूजम् । ख्यातं नभःशब्दमयेन नाम्ना कान्तं नमोमासमिव प्रजानाम् ॥ ६ ॥ नभश्चरैर्गन्धर्वादितियशाः स नलो नभस्तलश्यामतनुं नभःशब्दमयेन नाम्ना ख्यातम् । नभःशब्दसंशकमित्यर्थः । नभोमासमिव श्रावणमासमिव । प्रजानां कान्तं प्रियं तनूजं पुत्रं लेमे ॥ अन्वयः-नभश्चरैः गोतयशाः सः नभस्तलश्यामतनुं नभःशब्दमयेन नाम्ना ख्यातं नभोमासम् इव प्रजानां कान्तं तनूजं लेभे । व्याख्या-नभसि =आकाशे चरन्ति = गच्छन्तीति नभश्चरास्तैः नभश्चरैः = गन्धर्वादिभिः गीतं = कीर्तितं यशः= कीर्तिर्यस्य गीतयशाः सः राजा नलः नभसः=आकाशस्य तलं = स्वरूपमिति नभस्तलं, तद्वत् श्यामा = कृष्णा तनुः =शरीरं यस्य स नभस्तलश्यामतनुस्तं नभस्तलश्या नुम् । “अधस्वरूपयोरस्त्री तलम्" इत्यमरः । नभ इति शब्दः नभःशब्दः स एव यस्मिन् तत् तेन नभःशब्दमयेन = नभःशब्दरूपेण नाम्ना अभिधानेन ख्यातं = प्रसिद्धं, नभःशब्दनामकमित्यर्थः । विरहिणो नभ्यति, नम्नाति, नभते वा नभाः=श्रावणः स चासौ मासः नभोमासस्तं नभोमासं=श्रावणमासम् इव यथा प्रजानां = लोकानां कान्तं = प्रियं तन्वाः = शरीरात् जातः=उत्पन्नःइति तनूजस्तं तनूज़ = पुत्रं लेमे=प्राप्तवान् । समासः-गीतं यशः यस्य स गीतयशाः । नभसस्तलं नभस्तलं, तद्वत् श्यामा तनुः यस्य स तं नभस्तलश्यामतनुम् । नभाः चासौ मासः नभोमासस्तं नभोमासम् । नभः इति शब्दः नभःशब्दः, नभःशब्द एवेति नभःशब्दमयं तेन नभःशब्दमयेन । मतनु
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy