SearchBrowseAboutContactDonate
Page Preview
Page 1302
Loading...
Download File
Download File
Page Text
________________ ४२८ रघुवंशे व्याख्या-तेन नलपुत्रेण नभसा द्वाभ्यां = मुखशुण्डाभ्यां पिबन्तीति द्विपास्तेषां द्विपानां =गजानां पुण्डयति = भूषयतीति पुण्डरीकः = वह्निदिग्गजः इव = यथा यथा इन्द्रस्य ऐरावतः, तथैव अग्नेः पुण्डरीकवर्णत्वात् पुण्डरीको दिग्गजः इति। राज्ञां भूपालानां जेतुं शक्यः अय्यः न जय्यः अजय्यः=जेतुमशक्यः पुण्डरीकः= पुण्डरीकनामा पुत्रः अजनि = उदपादि, जनितः। पितरि = जनके= नभसि शान्ते = उपरते, स्वर्ग गते सति आहृतानि - गृहीतानि पुण्डरीकाणि = सिताम्भोजानि, श्वेतकमलानीत्यर्थः । यया सा आहृतपुण्डरीका श्रीः राज्यलक्ष्मीः यं = पुण्डरीकनामकं पुण्डरीक = श्वेतकमलमिव अक्षिणी = नेत्रे यस्य सः, पुण्डरीकं = लोकात्मकम् अक्षति = व्याप्नोतीति वा पुण्डरीकाक्षस्तं पुण्डरीकाक्षं = भगवन्तं विष्णुम् इव = यथा श्रिता=आश्रिता। समासः-न जय्यः अजय्यः । आहृतानि पुण्डरीकाणि यया स आहृतपुण्डरीका । पुण्डरीकमिव अक्षिणी यस्य स तं पुण्डरीकाक्षम् । हिन्दी-हाथियों में जैसे पुण्डरीक नामक ( अग्नि दिक्पाल का हाथी ) दिग्गज श्रेष्ठ तथा अजेय है, वैसा ही राजाओं में अजेय श्रेष्ठ पुत्र, राजा नभ ने पैदा किया था। पिता के स्वर्ग में चले जाने पर, श्वेतकमलधारिणी लक्ष्मी ने जिस पुण्डरीक को कमलनयन विष्णु के समान स्वीकार किया । अर्थात् लक्ष्मी ने पुण्डरीकको विष्णु मान कर वरण कर लिया ॥ ८॥ स क्षेमधन्वानममोघधन्वा पुत्र प्रजाक्षेमविधानदक्षम् । क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार ॥ ६ ॥ अमोघ धनुर्यस्य सोऽमोषधन्वा । 'धनुषश्च' इत्यनङादेशः समासान्तः। स पुण्डरीकः प्रजानां क्षेमविधाने दक्षं क्षमयोपपन्नं क्षान्तियुक्तं क्षेमं धनुर्यस्य तं क्षेमधन्वानं नाम पुत्रम् । 'वा संज्ञायाम्' इत्यनङादेशः। क्ष्मां लम्भयित्वा प्रापय्य लभेर्गत्यर्थत्वाद् द्विकर्मकत्वम् । क्षान्ततरोऽत्यन्तसहिष्णुः सन्वने तपश्चचार ॥ अन्वयः-अमोघधन्वा सः प्रजाक्षेमविधानदक्षं क्षमया उपपन्नं क्षेमधन्वानं पुत्र मां लम्भयित्वा क्षान्ततरः सन् वने तपः चचार । व्याख्या-मुह्यन्त्यस्मिन्निति मोघं “मोघं निरर्थकम्" इत्यमरः। न मोघमिति अमोघ = सफलं धनुः=चापं यस्य सः अमोघधन्वा सः= पुण्डरीकः प्रजानां जनानां क्षेम = कल्याणं तस्य विधानं = करणमिति प्रजाक्षेमविधानं तस्मिन् दक्षः = चतुरः समर्थस्तं प्रजाक्षेमविधानदक्षम् क्षमया =क्षान्त्या उपपन्नं = युक्तम् , क्षयत्यशुभमिति क्षेमं = शिवं = कल्याणप्रदमित्यर्थः धनुः= चापं यस्य स तं क्षेमधन्वानं =क्षेमधन्वनामकं पुत्रं = सुतं मां पृथिवीं लम्भयित्वा =प्रापप्य अतिशयेन क्षान्तः =शान्तः इति क्षान्ततरः, अतीव सहनशीलः सन् वने = अरण्ये, तपोवने इत्यर्थः। तपः तपस्यां चचार = कृतवान् । समासः-अमोघं धनुर्यस्य सः अमोघधन्वा। प्रजानां क्षेमं प्रजाक्षेमं तस्य विधानमिति प्रजाक्षेमविधानं तत्र दक्षस्तं प्रजाक्षेमविधानदक्षम् । क्षेमं धनुर्यस्य स तं क्षेमधन्वानम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy