SearchBrowseAboutContactDonate
Page Preview
Page 1143
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः २६९ संप्रति रामसंतानवृत्तान्तमाह सखा दशरथस्यापि जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ॥ ३१ ॥ दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि । 'सुकर्मपापमन्त्रपुण्येषु कृनः' इति क्विप् । उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचरकार संस्कृतवान् । जातकर्मादिभिरिति शेषः ॥ अन्वयः-दशरथस्य जनकरय च सखा मंत्रकृत् “सः अपि” उभयप्रीत्या मैथिलेयौ यथा विधि संचस्कार। व्याख्या-दशसु दिक्षु गतः रथो यस्य स दशरथस्तस्य दशरथस्य अयोध्याधिपतेः जनयतोति जनकस्तस्य जनकस्य = मिथिलाधिपतेः विदेहस्य च समानः ख्यायते जनेरिति सखा = मित्रम् मंत्रं करोतीति मंत्रकृत् = मंत्रद्रष्टा स वाल्मीकिरपि उभयोः -- दशरथजनकयोः प्रीतिः= स्नेहस्तया उभयप्रीत्या = द्वयोःप्रेम्णा मैथिल्याः-सीतायाः इमौ मैथिलेयौ= सीतासुतौ विधिमनतिक्रम्य यथाविधि = शास्त्रानुसारं संचस्कार = संस्कृतवान् सीतापुत्रयोः जातकर्मादिसंस्कारं कृतवान् इत्यर्थः। समासः-दशसु दिक्षु गतः रथः यस्य स दशरथस्तस्य दशरथस्य । उभयोः प्रीतिः उभयप्रोतिस्तया उभयप्रीत्या। विधिमनतिक्रम्य यथाविधि। मंत्रस्य कृत् इति मंत्रकृत् । हिन्दी-महाराजा दशरथ तथा राजा जनक जी के मित्र एवं मंत्रद्रष्टा वाल्मीकि ऋषि ने दोनों के स्नेहवश सीता जी के पुत्रों का शास्त्रानुसार जातकर्म संस्कार कर दिया ॥ ३१ ॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया। कविः कुशलवावेव चकार किल नामतः ॥ ३२ ॥ स कविर्वाल्मीकिः कुशैर्दमैलवैगोपुच्छलोमभिः। 'लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु' इति वैजयन्ती। उन्मृष्टो गर्भक्लेदो गर्मोपद्रवो ययोस्तौ कुशलवोन्मृष्टगर्भक्लेदौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासंख्यं कुशलवावेव चकार किल । कुशोन्मृष्टः कुशः । लवोन्मृष्टो लवः ॥ अन्वयः-सः कविः कुशलवोन्मृष्टक्लेदौ तौ तदाख्यया नामतः कुशलवौ एव चकार किल। व्याख्या--स कविः= वाल्मकिः कुशः = दभैंः लवैः = गोपुच्छलोमभिः उन्मृष्टः = निवारितः यः गर्भस्य = दोहृदस्य क्लेदः = दुःखम् , उपद्रवः ययो स्तौ, कुशलवोन्मृष्टगर्भक्लेदौ तौ = मैथिलेयौ, तेषां = कुशानां, लवानां च आख्या =नाम, इति तदाख्या तया तदाख्यया नाम्ना इति नामतः =नाम्ना क्रमशः कु=पापं श्यति = नाशयति विहितराजधर्मानुष्ठानेनेति कुशः= रामसुतः च लवश्चेति कुशलवौ एव चकार किल = कृतवान् । यस्य जन्मसमये कुशैः उपद्रवः उन्मृष्टः तस्य कुशः, यस्य च लवैः दुःखं दूरीकृतं तस्य लवः, नाम कृतमित्यर्थः । “लवः कालभि दिच्छिदि । विलासे रामजे लेशे तथा किअल्कपक्ष्मणोः गोपुच्छलोमस्वपि च" इति हैमः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy