SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ २६८ रघुवंशे स्वर्गाभिष्यन्दः, स्वर्ग विशेषतः प्रवृद्धः जनः इत्यर्थः। स्वर्गाभिष्यन्दस्य वमनम् ==आहरणम् आनयनमित्यर्थः। कृत्वा= विधाय उपनिवेशिता स्थापिता इव यथा बभौ=शुशुभे । स्वर्ग प्रवृद्धान् जनान् आदाय नगरीयं शत्रुध्नेन निर्मिता इव शुशुभे इत्यर्थः।। __ समासः-सुष्ठ राजा यस्याः सा सुराज्ञी, तस्याः भावः सौराज्यम् , सौराज्येन प्रकाशाः, ताभिः सौराज्यप्रकाशाभिः । पौराणां विभूतयः पौरविभूतयस्ताभिः पौरविभूतिभिः । स्वर्गस्य अभिष्यन्दः स्वर्गाभिष्यन्दः, स्वर्गाभिष्यन्दस्य वमनमिति तत् स्वर्गाभिष्यन्दवमनम् । हिन्दी-अच्छा सुयोग्य राजा होने के कारण, देदीप्यमान ( चमकते सुविख्यात ) नागरिकों के ऐश्वर्य से वह नगरी ऐसी ज्ञात हो रही थी। मानो स्वर्ग को बढ़ी हुई जनसंख्या को लाकर यह नगरी बसाई है। अर्थात् शत्रुघ्न के राजा होने पर वहाँ के लोग बड़े सुखी, ऐश्वर्यशाली थे। विशेष—कौटिल्य शास्त्र में लिखा है कि पहले अथवा अभी नई बढ़ी हुई जनसंख्या को दूसरे देश प्रान्त में अथवा अपने देश में अन्यत्र बसा देवे राजा ॥ २९ ॥ तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमती भूमेः प्रवेणीमिव पिप्रिये ॥ ३० ॥ तत्र मधुरायां सौवगतो हारूढः स चक्रवाकिनी चक्रवाकवतीं यमुनाम् । हेमभक्तिमतीं सुवर्णरचनावती भूमेः प्रवेणीं वेणिमिव । 'वेणिः प्रवेणी' इत्यमरः। पश्यन्पिप्रिये प्रीतः । 'प्रीङ् प्रीणने' इति धातोर्दैवादिकाल्लिट् ॥ अन्वयः-तत्र सौधगतः सः चक्रवाकिनी यमुनाम् हेमभक्तिमतीम् भूमेः प्रवेणीम् इव पश्यन् पिप्रिये । व्याख्या-तत्र = नवनिर्मितमथुरायां सुधा लेपोऽस्यास्तीति सौधः । सौधे = राजसदने गतः = आरूढ़ः इति सौधगतः सः शत्रुघ्नः चक्रशब्देन उच्यते इति चक्रवाकः । चक्रवाकश्च चक्रवाकी चेति चक्रवाको स्तः अस्यां सा चक्रवाकिनी तां चक्रवाकिनीम् = रथांगनामवतीम् , यमुनां = कालिन्दी हेम्नः सुवर्णस्य भक्तिः रचना इति हेमभक्तिः, सा अस्याः अस्तीति हेमभक्तिमती तां हेमभक्तिमती भूमेः = पृथिव्याः प्रकृष्टा वेणी प्रवेणी तां प्रवेणी=वेणीम् इव = यथा पश्यन् =अवलोकयन् पिप्रिये प्रीतः, प्रसन्नोऽभूदित्यर्थः। “वेणी सेतुप्रवाहयोः । देवताडे केशबन्धे” इति हैमः । समासः-सौधे गतः सौधगतः। हेम्नः भक्तिमती हेमभक्तिमती तां हेमभक्तिमतोम् । प्रकृष्टा वेणी प्रवेणी तां प्रवेणीम् । हिन्दी-राजभवन के ऊपर चढ़कर नीले जलवालो उस यमुना को देखते हुए शत्रुघ्न बड़े प्रसन्न हुए। जिसमें चकवा-चकवी कल्लोल कर रहे थे। वह यमुना ऐसी लग रही थी मानो सुवर्ण के फूलों से गूंथी गई पृथिवी की चोटी हो ॥ ३० ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy