SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ १८४ रघुवंशे रघूणां नन्दनेन रामेण कथितावुभौ विभीषणसुग्रीवौ लक्ष्मणमनुजमपिव्युत्क्रम्यालिङ्गनादिभिः संभाव्य भरतो ववन्दे ॥ अन्वयः-अयं मे दुर्जातबन्धु: ऋक्षहरीश्वरः, एषः समरेषु पुरः प्रहर्ता पौलस्त्यः, 'अस्ति' इति आदृतेन रघुनन्दनेन कथितौ उभौ लक्ष्मणं व्युत्क्रम्य भरतः ववन्दे । व्याख्या-अयं = पुरोवर्ती मे=रामस्य दुर दुष्टं यथा तथा जातमिति दुर्जातं, दुर्जाते= व्यसने, संकटे बन्धुः=मित्रमिति दुर्जातबन्धु: "दुर्जातं व्यसनमिति त्रिकाण्डशेषः । ऋक्ष्णोति= हन्तीति ऋक्षः। ऋक्षाः=भल्लूकाश्च हरयः वानराश्चेति ऋक्षहरयस्तेषामीश्वरः-राजा, इति ऋक्षहरीश्वर:=सुग्रीवः अस्तीति शेषः । एषः अपरः समरेषु = युद्धेषु पुरः = अग्रे प्रहर्ता=प्रहारस्य कर्ता पुलस्तेः गोत्रापत्यं पुमान् पौलस्त्यः=विभीषणः अस्ति । इति= इत्थम् आदृतेन = आदरवता रघूणां नन्दनस्तेन रघुनन्दनेन रामचन्द्रण कथितौ परिचायितौ, प्रदर्शितौ इत्यर्थः । उभौ =विभीषणसुग्रोवौ लक्ष्मणं =सौमित्रिं, भ्रातरमपि व्युत्क्रम्प परित्यज्य, अपरिष्वज्य भरतः ववन्दे=प्रणनाम। अनुजमपि परित्यज्य व्यसनबन्धुत्वात् प्रथमं विभीषणसुग्रीवौ सम्भावयामास। समासः-दुर्जाते बन्धुरिति दुर्जातबन्धुः । ऋक्षाणां हरीणां च, ईश्वरः ऋक्षहरीश्वरः । रघूणां नन्दनः रघुनन्दनस्तेन रघुनन्दनेन । हिन्दी-भगवान् राम भरतजी से विभीषणादि का परिचय कराते हैं। ये मेरे कष्ट के समय के मित्र बन्दर भालुओं के राजा सुग्रीव हैं और यह युद्ध में आगे बढ़कर शत्रु पर प्रहार करने वाला पुलस्त्यऋषि के कुल में उत्पन्न विभीषण है। इस प्रकार आदरपूर्वक रघुकुल को आनन्द देने वाले राम के बताए हुवे ( परिचय दिये हुए ) सुग्रीव और विभीषण को भरत ने लक्ष्मण को छोड़कर प्रथम ही प्रणाम किया। विशेष-श्रीराम के विपत्तिकाल में काम आने वाले विभीषण एवं सुग्रीव का भाई की अपेक्षा प्रथम नमरकार करके विशेष आदर सूचित किया ॥ ७२ ॥ सौमित्रिणा तदनु संससृजे स चैन मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग । रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ।। ७३ ॥ तदनु सुग्रीवादिवन्दनानन्तरं स · भरतः। सौमित्रिणा संससृजे संगतः। 'सृज विसर्गे' देवादिकात्कर्तरि लिट् । नम्रशिरसं प्रणतमेनं सौमित्रिमुत्थाप्य भृशं गाढम.लि लङ्ग च । किं कुर्वन्। रूढेन्द्रजित्प्रहरणव्रणैः कर्कशेनास्य सौमित्ररुरःस्थलेन भुजमध्यं स्वकीयं क्लिश्यन्निव पोडयन्निव । क्लिश्नातिरयं सकर्मकः। 'क्लिश्नाति भुवनत्रयम्' इति दर्शनात् । ननु रामायणे-'ततो लक्ष्मणमासाद्य वैदेहीं च परंतपः । अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् ॥' इति भरतस्य
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy