SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ प्रयोदशः सर्गः श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्वान् । अन्वग्रहीत्प्रणमतः शुभदृष्टिपातै र्वार्तानुयोगमधुराक्षरया च वाचा ॥ ७१ ॥ श्मश्रूणां मुखरोम्णां प्रवृद्धया संस्काराभावादभिवृद्धया जनिताननेषु विक्रिया विकृतिर्येषां तानत एव प्ररोहै: शाखाबलम्बिभिरधोमुखैमूलर्जटिलाअटावतः प्लक्षान्न्यग्रोधानिव स्थितान् । प्रणमतो मन्त्रिवृद्धांश्च शुभैः कृपादॆदृष्टिपातैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहीदनुगृहीतवान् ॥ अन्वयः-श्मश्रुप्रवृद्धिजनिताननविक्रियान् , प्ररोहजटिलान् प्लक्षान् इव प्रणमतः मंत्रिवृद्धान् च शुभदृष्टिपातैः वार्तानुयोगमधुराक्षरया वाचा च अन्वग्रहीत्। व्याख्या-श्म = मुखं श्रयन्ति, श्मनि = मुखे श्रूयन्ते वा श्मश्रूणि। श्मश्रूणां मुखलोम्नां प्रकर्षेण वृद्धिः कर्तनाभावात् वर्द्धनं तया जनिता प्रादुर्भूता आननेषु =मुखेषु विक्रिया = विकृतिः, वैरूप्यमित्यर्थः । येषां ते तान् श्मश्रुप्रवृद्धिजनिताननविक्रियान्। प्ररोहै: अंकुरैः, शाखोत्पन्नैरधोमुखैर्मूलैरित्यर्थः, जटिलाः जटावन्तस्तान् प्ररोहजटिलान् प्रक्षरन्ति, प्लक्ष्यन्ते= भक्ष्यन्ते, प्लक्षाः। प्लक्षन्ति=अधो गच्छन्तीति वा प्लक्षास्तान् प्लक्षान् =वटवृक्षान् इव यथा प्रणमतः प्रणामं कुर्वतः मंत्रिषु अमात्येषु वृद्धाः श्रेष्ठास्तान् मंत्रिवृद्धान् च शु=पूजितं भान्तीति शुभास्तैः शुभैः = कल्याणैः, दयाद्भरित्यर्थः । दृष्टेः=ईक्षणस्य पातैः=अवलोकनैः वार्तस्य=निरामयस्य अनुयोगः=प्रश्नः, इति वार्तानुयोगः, वार्तानुयोगे मधुराणि = प्रेमार्द्राणि अक्षराणि यस्यां सा तया वार्तानुयोगमधुराक्षरया वाचा = वाण्या च अन्वग्रहीत्=अनुगृतवान् । _ समासः-श्मश्रूणां प्रकर्षेण वृद्धिः, तया जनिता आननेषु विक्रिया येषां ते तान् तथोक्तान् । प्ररोहै: जटिलास्तान् प्ररोहजटिलान् । मंत्रिषु वृद्धाः मंत्रिवृद्धास्तान् मंत्रिवृद्धान् । दृष्टेः पाताः दृष्टिपाताः, शुभाश्च ते दृष्टिपाताः शुभदृष्टिपातास्तैः शुभदृष्टिपातैः । वार्तस्य अनुयोगः वार्तानुयोगः वातानुयोगे मधुराणि अक्षराणि यस्यां सा तया वार्तानुयोगमधुराक्षरया। हिन्दी-मूंछ-दाढ़ी बढ़ जाने के कारण विकृत ( बदले हुए से ) मुखवाले और प्रणाम करत हुए, उन बूढ़े मंत्रियों से मिले, जो कि ऐसे दीख रहे थे मानों, नोचे को लटकती जटा वाले बड़ के वृक्ष हों तथा कृपापूर्ण दृष्टि से देखकर बड़ी मधुर वाणी से कुशल समाचार पूछा ॥७॥ दुर्जातब,धुरयमृक्षहरीश्वरो मे __पौलस्त्य एष समरेषु पुरःप्रहर्ता । इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ।। ७२ ॥ अयं मे दुर्जातबन्धुरापद्वन्धुः। 'दुर्जातं व्यसनं प्रोक्तम्' इति विश्वः । ऋक्षहरीश्वरः सुग्रीवः । एष समरेषु पुरःप्रहर्ता पौलस्त्यो विभीषणः । इत्यादृतेनादरवता। कर्तरि क्तः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy