SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः कानिष्ठयं प्रतीयते । किमर्थ ज्येष्ठ्यमवलम्ब्यानाजवेन श्लोको व्याख्यातः । सत्यम् । किंतु रामायणश्लोकार्पष्टीकाकृतोक्तः श्रूयताम्-'ततो लक्ष्मणमासाद्य-' इत्यादिश्लोक 'आसादनं लक्ष्मणवैदेह्योः । अभिवादनं तु वैदेह्या एव । अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुद्धयेतेति ॥ अन्वयः-तदनु सः सौमित्रिणा संसृजे, नम्रशिरसम् एनम् उत्थाप्य, रूढेन्द्रजित्प्रहरणकर्कशेन अस्य उरस्थलेन भुजमध्यं क्लिश्यन् इव भृशम् आलिलिंग। व्याख्या-तस्मात् = सुग्रीवादिवन्दनात् अनु - पश्चात् , तदनु सः भरतः सुमित्रायाः अपत्यं पुमान् सौमित्रिः, तेन सौमित्रिणा लक्ष्मणेन संसृजे संगतः, मिलित इत्यर्थः । ननं = नतं शिरः = मस्तकं यस्य स तं नम्रशिरसम् एनं लक्ष्मणम् उत्थाप्य =बाहुभ्यामुपरि कृत्वा इन्द्रजितः मेघनादस्य प्रहरणानि =प्रहाराः तेष व्रणाः=क्षतानि, इति इन्द्रजित्प्रहरणव्रणाः रूढाः प्रादुर्भूताः संलग्ना इत्यर्थः । ये इन्द्रजित्प्रहरणव्रणास्ते रूढेन्द्रजित्पहरणव्रणास्तैः कर्कशं= कठिनं तेन रूढेन्द्रजित्प्रहरणव्रणकर्कशेन, अस्य लक्ष्मणस्य उरसः स्थलमिति उरस्थलं तेन उरस्थलेन=वक्षस्थलेन भुजयोः मध्यः भुजमध्यः=तं भुजान्तरं स्वकीयं क्लिश्यन् = परिपीडयन् इव = यथा भृशम् =अत्यन्तम् = गाढम् आलिलिंग = परिषस्वजे, आलिंगितवानित्यर्थः । समासः-ननं शिरः यस्य स तं नम्रशिरसम् । इन्द्रजितः प्रहरणानि, इन्द्रजित्प्रहरणानि, तेषां व्रणाः इन्द्रजित्प्रहरणवणाः रूढाः ये इन्द्रजित्प्रहरणवणा स्तैः कर्कशं तेन रूढेन्द्रजित्प्र. हरणव्रणकर्कशेन । उरसः स्थलं तेन उरस्थलेन भुजयोः मध्यः भुजमध्यस्तं भुजमध्यम् । हिन्दी--सुग्रीव विभीषण को नमस्कार करने के अनन्तर भरतजी लक्ष्मण से मिले, और प्रणाम करने के लिये नत मस्तक वाले लक्ष्मण को उठाकर मेघनाद ( रावणपुत्र ) के अस्त्र प्रहार से लगे घावों के कारण कठोर हुए लक्ष्मण के वक्षस्थल से अपनी छाती को पीड़ित सी करते हुए भरत ने खूब गाढ़ आलिंगन किया ।। ७३ ।। रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुदुर्गजेन्द्रान् । तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते ॥ ७४ ।। तदानीं हरिचमूपतयो रामाशया मनुष्यवपुः कृत्वा गजेन्द्रानारुरुहुः । बहुधा मदवारिधाराः क्षरत्सु वर्षत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ॥ अन्वयः-तदानीम् हरिचमूपतयः रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्रान् आरुरुहुः। बहुधा मदवारिधाराः क्षरत्सु तेषु ते शैलाधिरोहणसुखानि उपलेभिरे । व्याख्या-तस्मिन् काले तदानीं तदा चमति शत्रूनिति चमूः । हरीणां वानराणां चम्बः=तिस्रः पृतनारतासां पतयः=स्वामिनः, इति हरिचमूपतयः रामस्य आशा=आदेशस्तया रामाशया मनुष्याणां नराणां वपुः=शरीरं, तत् मनुष्यवपुः कृत्वा विधाय, स्ववानरादिस्वरूपं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy