SearchBrowseAboutContactDonate
Page Preview
Page 1004
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम् । पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे ।। अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्यवाच ॥ १ ॥ अथ प्ररथानानन्तरम् । जानातीति शः। 'इगुपध'-इत्यादिना कप्रत्यः। गुणानां शो गुणशः। रत्नाकरादिवण्यश्वर्यगुणाभिश इत्यर्थः। स रामाभिधानो हरिविष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम् । आकाशमित्यर्थः । 'वियद्विष्णुपदम्' इत्यमरः । 'शब्दगुणकमाकाशम्' इति तार्किकाः। विमानेन पुष्पकेण विगाहमानः सन् । रत्नाकरं वीक्ष्य मिथो रहसि । 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः। जायां पत्नी सीताम् इति वक्ष्यमाणप्रकारेणोवाच। रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम् । मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ।। अन्वयः-अथ गुणशः सः रामाभिधानः हरिः शब्दगुणम् आत्मनः पदं विमानेन विगाहमानः ( सन् ) रत्नाकरं वोक्ष्य मिथः जायाम् इति उवाच । __व्याख्या-अथ प्रस्थानानन्तरम् जानातीति ज्ञः,गुणानां समुद्रस्यैश्वर्यादीनां शः= शाता, इति गुणज्ञः सः=प्रसिद्धः रामः रामचन्द्रः अभिधानं नाम यस्य स रामाभिधानः । अभिधीयते इति अभिधानम् । “अभिधानं च नामधेयं च नाम च" इत्यमरः। हरति पापानि, इति हरिः= विष्णुः शब्दः =ध्वनिः गुणः यस्य तत् शब्दगुणम् आत्मनः स्वस्य विष्णोरित्यर्थः पदम् =आस्पदं, स्वरूपं वा विमानेन व्योमयानेन विगाहते विगाहमानः सन् = प्रविशन् सन् रत्नानां = मण्यादीनाम् आकरः = खनिः तं रत्नाकरं = सागरं वीक्ष्य = विलोक्य मिथः = रहसि अन्योन्यमित्यर्थः। जायतेऽस्यां सा जाया भार्या तां जायां जानकीमिति = वक्ष्यमाणम् उवाच=उक्तवान् । समासः--शब्दः गुणः यस्य तत् , शब्दगुणम् । गुणस्य शः गुणशः। रामः अभिधानं यस्य स रामाभिधानः। रत्नानाम् आकरस्तं रत्नाकरम् ॥ हिन्दी-लंका से प्रस्थानकर गुणों के ज्ञाता राम नाम वाले विष्णु भगवान् , शब्द गुण वाले आकाश में विमान से चलते हुए ( समुद्र को पार करते हुए ) रत्नों वाले सागर को देखकर एकान्त में अपनी पत्नी सीताजी से इस प्रकार बोले। विशेष--'आत्मनः पदं' कहने का भाव है कि विष्णुपद, आकाश को विष्णुपद, इस
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy