SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १२९ ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन्। विमान रत्नमिव विमानरत्नमित्युपमितसमासः। भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन् । पुरोमयोध्या प्रतस्थे । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम् । अस्ति च धातूनां क्रियान्तरोपसर्जनकस्वार्थाभिधायकत्वम् । यथा 'कुसूलान्पचति' इत्यादावादानक्रियागर्भः पाको विधीयत इति ।।१०४॥ इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया __ व्याख्यया समेते महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये रावणवधो नाम द्वादशः सर्गः ।। अन्वयः-रघुपतिः अपि जातवेदोविशुद्धां प्रियां प्रगृह्य, प्रियसुहृदि विभीषणे वैरिणः श्रियं संगमय्य, रविसुतसहितेन ससौमित्रिणा तेन अनुयातः भुजविजितविमानरलाधिरूढः सन् पुरीम् प्रतस्थे। ___ व्याख्या--रघूणां = रघुवंशीयानां पतिः = स्वामी, इति रघुपतिः रामचन्द्रः अपि विद्यते = लभ्यते इति वेदः, विद्लु लाभे धातोः असुन्प्रत्यये। जातं वेदः= धनं यस्मात् स जातवेदाः । तस्मिन् जातवेदसि = वह्नौ विशुद्धा = पूता तां जातवेदोविशुद्धाम् प्रियां= सीतां प्रगृह्य = स्वीकृत्य प्रियश्चासौ सुहृत् प्रियसुहृत् तस्मिन् प्रियसुहृदि = प्रियमित्रे विभीषणे वीरस्य भावः कर्म वा वैरम् । वैरमस्यास्तीति वैरी तस्य वैरिणः =शत्रोः रावणस्य श्रियं = राज्यलक्ष्मी संगमय्य = संगतां कृत्वा, रावणराज्ये विभीषणमभिषिच्येत्यर्थः, रवेः = सूर्यस्य सुतः पुत्रः रविसुतः । रविसुतेन = सुग्रीवेण सहितः= युक्तस्तेन रविसुतसहितेन सौमित्रिणा= लक्ष्मणेन सह इति ससौमित्रिस्तेन ससौमित्रिणा तेन = विभीषणेन अनुयातः = अनुगतः सन् , विशिष्टं मानयत्यनेनेति विमानम् । विगतं मानम् = उपमा यस्येति वा विमानं रत्नमिव इति विमानरत्नम् । भुजाम्यां = बाहुभ्यां विजितं = जितमिति भुजविजितम् , भुजविजितं च तद् विमानरत्नमिति भुजविजितविमानरत्नं तत् अधिरूढः=आरूढः इति भुजविजितविमानरत्नाधिरूढः सन् पुरोम् = अयोध्यानगरी प्रतस्थे = चचाल । लक्ष्मणसुग्रीवविभीषणादिभिः सह रामः पुष्पकेण साकेताय ग्रस्थानमकरोदित्यर्थः ।। समासः-रघूणां पतिः रघुपतिः । जातवेदसि विशुद्धा तां जातवेदोविशुद्धाम् । प्रियश्चासौ सुहृत्, तस्मिन् प्रियसुहृदि । रविसुतेन सहितस्तेन रविसुतसहितेन । सौमित्रिणा सह ससौमित्रिस्तेन ससौमित्रिणा । विमानं रत्नमेव विमानरलम् । भुजाभ्यां विजितमिति भुजविजितम् । भुजविजितं च तत् विमानरत्नमिति भुजविजितविमानरत्नं तदधिरूढः, तथोक्तः । हिन्दी-रघुकुल तिलक रामचन्द्रजी ने भी, अग्नि में शुद्ध की गई अपनी प्रिया सीता को स्वीकार करके, और प्रियमित्र विभीषण को रावण का राज्य देकर, सूर्यपुत्र सुग्रीव, लक्ष्मण तथा विभीषण के साथ, अपने भुजबल से जीते हुए पुष्पकविमान में बैठकर अयोध्या की ओर प्रस्थान किया ।। १०४ ॥ इति श्रीशांकरिधारादत्तशास्त्रिमिश्रविरचितायां "छात्रोपयोगिनी" व्याख्यायां रघुवंशे महाकाव्ये रावणवधो नाम द्वादशः सर्गः ।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy