SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः लिये कहा जाता है कि वामनावतार में एक चरण से आकाश को नाप लिया था। हरि कहने का तात्पर्य है कि निरतिशय महिमा सामर्थ्य वाला। एवं मिथः से गोष्ठी विश्वास के योग्य । जाया से, जिसमें पुनः स्वयं पुत्र रूप से उत्पन्न हो वह जाया कहाती है। मनु ने कहा है कि “जायायास्तद्धि जायात्वं यदस्यां जायते पुनः" । नैयायिक लोग आकाश को शब्द गुण वाला मानते हैं । शब्दगुणकमाकाशमिति ।। १॥ वैदेहि पश्यामलयाद्विमक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥२॥ हे वैदेहि सोते, आ मलयान्मलयपर्यन्तम् । 'पञ्चम्यपाङ्परिभिः' इति पञ्चमी । पदद्वयं चैतत् । मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः। हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं फेनवन्तम् । 'फेनादिलच्च' इतीलच्प्रत्ययः । क्षिप्रकारी चायमिति भावः । अम्बुराशिम् । छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव पश्य । मम महानयं प्रयासस्त्वदर्थ इति हृदयम् । छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ।। अन्वयः--हे वैदेहि ! आ मलयात् मत्सेतुना विभक्तं फेनिलम् अम्बुराशिम्, छायापथेन विभक्तं शरत्प्रसन्नम् आविष्कृतचारुतारम् आकाशम् इव (त्वं) पश्य । व्याख्या--विदेहस्य = जनकस्यापत्यं पुत्री वैदेही तस्याः संबुद्धौ हे वैदेहि ! मलते= धरति चन्दनादीति मलयस्तस्मात् आ मलयात् =मलयपर्वतपर्यन्तम् , आ इति पृथक् पदं तद्योगे च पंचमी विभक्तिः । सिनोति = बध्नाति जलमिति सेतुः । मम = रामस्य सेतुः = आलिः, इति मत्सेतुस्तेन मत्सेतुना, अतिलम्बायमानसेतुनेत्यर्थः । “सेतुरालौ स्त्रियां पुमान्" इत्यमरः । विभक्तं = द्विधाकृतं, कृतविभागमित्यर्थः फेनाः=अब्धिकफाः सन्त्यस्य स फेनिलस्तं फेनिलम् अम्बूनां राशिः=समूहस्तम् अम्बुराशि=सागरं छयति = छिनत्ति सूर्यादेः प्रकाशं नाशयतीति छाया। छायायाः= मेघच्छायाया अभ्यन्तरः पन्थाः छायापथस्तेन छायापथेन =तारासमूहमध्यवतिना तिर्यगवकाशेन, विभक्तं शरदा = शरदृतुना प्रसन्नं = निर्मलमिति शरत्प्रसन्नम् आविष्कृताः प्रकटिताः चारुताराः=सुन्दरनक्षत्राणि येन तत् आविष्कृतचारुतारम् आ=समन्तात् काशन्ते सूर्यादयो यत्र तत् आकाशं = गगनम् इव = यथा, तत्सदृशमित्यर्थः । पश्य = अवलोकय । त्वमिति शेषः। समासः--अम्बूनां राशिः अम्बुराशिस्तम् अम्बुराशिम् । छायायाः पन्थाः छायापथस्तेन छयापथेन। शरदा प्रसन्नं तत् शरत्प्रसन्नम् । आविष्कृताः चायः ताराः येन तत् आविष्कृतचारुतारम् तत् । मम सेतुः मत्सेतुस्तेन मत्सेतुना। हिन्दी-हे जनकपुत्री सीते ! मलयाचल तक मेरे बनाए हुए पुल से दो भागों में बटे हुए, तथा फेन ( झाग) से भरे, निर्मलजल वाले सागर को तुम देखो। यह वैसा ही सुन्दर लग रहा है जैसा कि आकाश गंगा से दो भागों में बटा हुआ, तथा सुन्दर ताराओं से जगमगाता. शरत् ऋतु में निर्मल साफ स्वच्छ आकाश हो।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy