SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ १२८ रघुवंशे यन्ता हरेः सपदि संहृतकार्मुकज्य मापृच्छय राघवमनुष्ठितदेवकार्यम् । नामाङ्करावणशराङ्कितकेतुयष्टि __ मूवं रथं हरिसहस्रयुजं निनाय ॥ १०३ ।। हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकामुकज्यमनुष्ठितं देवकार्य रावणवधरूपं येन तं राघवमापृच्छय साधु यामीत्यामन्त्र्य । नामाकर्नामाक्षरचिहें रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम् । हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक् । तम् 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिः' इत्युभयत्राप्यमरः । रथमूर्ध्व निननाय नीतवान् ॥ श्रवन्यः--हरेः यन्ता सपदि संहृतकार्मुकज्यम् अनुष्ठितदेवकार्यम् राघवम् आपृच्छय , नामांकरावणशराङ्कितकेतुष्टिम् हरिसहस्रयुजं रथम् ऊर्ध्व निनाय ।। व्याख्या--हरे:= इन्द्रस्य यन्ता= सारथिः = मातलिः सपदि = तत्क्षणे संहृता = संक्षिप्ता, संकुचिता कार्मुकस्य ज्या = मौर्वी येन स तं संहृतकार्मुकज्यम् , अनुष्ठितं = सम्पदितं देवानाम् = इन्द्रादीनां कार्य =रक्षोवधरूपं येन स तम् अनुष्ठितदेवकार्यम् राघवं = रामम् आपृच्छय = आमंत्र्य नाम्न: अंकानि = अक्षरचिह्नानि येषु ते तैः नामांकः = नामाक्षरैः रावणस्य शरैः= बाणैः अंकिता = चिह्निता केतोः = पताकायाः यष्टिः = दण्डः यस्य स तं नामांकरावणशरांकितकेतु. यष्टिम् , हरीणां - वाजिनाम् , अश्वानां सहस्रण = सहस्रसंख्यया युज्यन्ते, इति हरिसहस्रयुक् तं हरिसहस्रयुजम् = सहस्रतुरंगयुक्तं रथं = स्यन्दनम् , इन्द्ररथमित्यर्थः । ऊर्ध्व = स्वर्गम् निनाय = नीतवान् । कार्य सम्पन्ने सति रामानुज्ञातो मातलिः इन्द्ररथं नीत्वा स्वर्ग ययौ इत्यर्थः । समासः-संहृता कार्मुकस्य ज्या येन स तं संहृतकार्मुकज्यम् । देवानां कार्यमिति देवकार्यम् , अनुष्ठितं देवकार्य येन स तम् अनुष्ठितदेवकार्यम् । नाम्नः अंकानि येषु तैः । नामांकैः रावणस्य शरैः अंकिता केतोः यष्टिः यस्य स तं नामांकरावणशरांकितकेतुयष्टिम् । हरीणां सहस्रयुगिति हरिसहस्रयुक् तं हरिसहस्रयुजम् ।। हिन्दी--तुरन्त ही धनुष की डोरीको उतार लेने वाले, और देवताओं के कार्य ( भूभार हरण ) को पूर्ण करने वाले राम से पूछकर ( आज्ञा ले कर ) इन्द्र का सारथि मातलि, उस रथको ऊपर स्वर्ग में ले गया जिसमें हजार घोड़े जुते हुए थे। और रावण के नाम के अक्षर खुदे हुए रावण के बाणों के निशान रथ की ध्वजा के दण्ड मे लगे थे ॥ १०३ ॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥ १०४ ॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य । प्रियसुहृदि विभीषणे वैरिणो रावणरय श्रियं राज्यलक्ष्मी संगमय्य संगतां कृत्वा । गमेय॑न्ताल्लयप्प्रत्ययः । 'मितां ह्रस्वः' इति ह्रस्वः । ल्यपि लघुपूर्वात्' इति णेरयादेशः। रविसुतसहितेन सुग्रीवयुक्तेन
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy