SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ मध्यरङ्गविधानम् देवानां च नृपाणां च स्थानकासनयोग्यकम् । मुक्ता (क्त) प्रपाङ्गमानं च लक्षणं वक्ष्यतेऽधुना ॥ १ ॥ यद्युक्तमध्यरङ्गे तु चतुखिंशद्विभाजिते । एकैकं भागहीनं स्यात्प्रपा विस्तारमिष्यते ॥ २ ॥ तच्चतुर्भागिकैकेन तन्मसूरकतुङ्गम् । तद्वयं पादतु स्वात्तदर्थं प्रस्तरोदयम् ॥ ३ ॥ प्रथवाष्टांशकं तुङ्गे विभजेत्तद्विशेषत: । प्रर्धा (य) धशेन वेदिः स्यात्पच्चांशं चाप्रितुङ्गकम् ॥ ४ ॥ प्रपा (प्रस्तर) तुङ्गं शिवांशं (ध) स्यादथवा षड्विभाजिते । एकांशं वेदिकात्तुङ्गं चतुर्भागा (गम) धितुङ्गकम् ॥ ५ ॥ एकांशं मध्यतुङ्गं स्यात्सर्वालङ्कारसंयुतम् । एकत्रिभक्तिकं वापि चतुरर्धाङ्घ्रिसंयुतम् ॥ ६ ॥ सर्वेषां पादविस्तारं त्रिचतुष्पथ्चाङ्गुलं भवेत् । धान्य (दारू) स्तम्भमिति प्रोक्तं शिलास्तम्भं विशेषतः ॥ ७ ॥ सप्ताष्टाङ्गुलं वापि शिलास्तम्भं (म्भ ) विशालकम् । वृतं वा चतुर वा म (चा) ष्टाश्रं षोडशाश्रकम् ॥ ८ ॥ पादतुङ्गेऽष्टभागे तु त्रयांशेनार्ध्वमलङ्कृतम् । बोधिकं मुष्टिबन्धं च फलका ना(ता) टिका घटम् ॥ ६॥ सर्वालङ्कारसंयुक्तं मूले पद्म समन्वितम् । चतुर्दिक्षु चतुर्भद्रं केचिद् भद्रं तु कारयेत् ॥ १० ॥ 4 8 12 16 20
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy