________________
प्रज्ञापकदिशोऽधिकार: [श्रु०१। अ०१। उ०१। नि०६३] [नि०] पन्नवगदिसट्ठारस भावदिसाओ वि तत्तिया चेव ।
एक्वेक्वं विधिज्जा भवंति अट्ठारसऽट्ठारा ॥६१॥ [नि०] पन्नवगदिसाए पुण अहिगारो एत्थ होइ कायव्वो ।
जीवाण पोग्गलाण य एयासु गयागई अत्थि ॥६२॥ पन्नवगेत्यादि, पन्नवगदिसाए इत्यादि । प्रज्ञापेकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रमाणा एव प्रत्येकं सम्भवन्ति अत एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विध्येत्-ताडयेत्, ततोऽष्टादश अष्टादशकाः, ते च सङ्ख्यया त्रीणि शतानि चतुर्विंशत्यधिकानि भवन्तीति । एतच्चोपलक्षणम्, तापदिगादौ अपि यथासम्भवं आयोजनीयमिति । क्षेत्रदिशः तु चतसृष्वेव महादिक्षु सम्भवः, न विदिगादिषु, तासां एकप्रदेशिकत्वात् चतुष्पदेशिकत्वात् चेति भावार्थः । अयं च दिक्संयोगकलापः अन्नयरीओ दिसाओ आगओ अहमंसि इत्यनेन परिगृहीतः ॥६१-६२।।
सूत्रावयवार्थः च अयम्- इह दिग्ग्रहणात् प्रज्ञापकदिशः, चतस्रः पूर्वादिका, ऊर्धाऽधोदिशौ च परिगृह्यन्ते, भावदिशः तु अष्टादशापि । अनुदिग्ग्रहणात् प्रज्ञापकविदिशो द्वादशेति । तत्र असज्ञिनां नैषो अवबोधो अस्ति, सझिनामपि केषाञ्चिद् भवति केषाञ्चिद् न इति यथा-'अहममुष्या दिशः समागत इह' इति ।
‘एवमेगेसि नो नायं भवति' त्ति । एवम् अनेन प्रकारेण प्रतिविशिष्टदिग्विदिगागमनं न एकेषां विदितं भवति इति एतदुपसंहारवाक्यम् ।
एतदेव नियुक्तिकृदाह[नि०] केसिंचि नौणसण्णा अत्थी कैसिंचि नत्थि जीवाणं ।
कोऽहं परम्मि लोए आसी कयरा दिसाओ वा ॥६३॥ केसिमित्यादि । केषाञ्चिद् जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसञ्जा अस्ति, केषाञ्चित् तु तदावृतिमतां न भवतीति । यादृशी सञ्ज्ञा न भवति तां दर्शयतिकोऽहं परस्मिन् लोके जन्मनि मनुष्यादिः आसम् ? अनेन भावदिग् गृहीता। कतरस्या
टि० १. य ब । २. ०पनापे० घ ॥ ३. विन्ध्यात् ख ग ॥ ४. ०येद्, अतो० ख ॥ ५. सन्तीति घ ङच ।। ६. दिशि तु च० खपुस्तकाढते ।। ७. ०कप्रादे० च ।। ८. ०ति गाथाद्वयार्थः ग । ति भावावाद्वयार्थः ङ।। ९. ऊर्धाधो[?ऊर्ध]दिगधोदिक् च परि० ङ॥ १०.०ति यथा ख च ।। ११. सिं नो सन्नायं ख ॥ १२. एवमित्यनेन ख ग ॥ १३. णानसत्था क । नाणचिन्ता झ ॥ १४. अत्थि उ के० ज ॥ १५. केसिं च झ ॥ १६. कइरा ख ज ठ॥ १७. य ञ ॥ १८. ०त् तदा० ख ॥ १९. यादृग्भूता संज्ञा ख ग॥