________________
[श्रु०१। अ०१। उ०१। सू०१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् वा दिशः समायात इति अनेन तु प्रज्ञापकदिग् उपात्ता इति । यथा कश्चिन् मदिरामदाघूर्णितेलोललोचनो अव्यक्तमनोविज्ञानो रथ्यामार्गनिपतितः छाकृष्टश्वगणावलिह्यमानवदनो गृहमानीतो मदात्यये न जानाति कुतो अहमागतः? इति, तथा प्रकृतो मनुष्यादिरपीति गाथार्थः ॥६३॥ न केवलमेषैव सञ्ज्ञा नास्ति, अपरापि नास्तीति सूत्रकृदाह
अस्थि मे आया ओववाइए, नत्थि मे आया उववाइए, कोऽहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ? ॥१॥
___अत्थि मे आया ओववाइए, नत्थि मे आया उववाइए, कोऽहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि त्ति । अस्ति विद्यते, मम इत्यनेन षष्ठ्यन्तेन शरीरं निर्दिशति, मम अस्य शरीरस्य अधिष्ठाता, अतति गच्छति सततगतिप्रवृत्त आत्मा जीवो अस्तीति । किम्भूतः ? 'औपपातिकः' उपपात:=प्रादुर्भावः जन्मान्तरसङ्क्रान्तिः, उपपाते भव: औपपातिक इति, अनेन संसारिणः स्वरूपं दर्शयति । स एवम्भूत आत्मा मम अस्ति नास्तीति चैवम्भूता सञ्ज्ञा केषाञ्चिद् अज्ञानावष्टब्धचेतसां न जायत इति। तथा कोऽहं नारक-तिर्यङ्-मनुष्यादिः आसं पूर्वजन्मनि ? को वा इत:=मनुष्यादेः जन्मनः च्युतः विनष्टः इह संसारे प्रेत्य-जन्मान्तरे भविष्यामि उत्पत्स्ये ? इत्येषा च सञ्ज्ञा न भवतीति । इह च यद्यपि सर्वत्र भावदिशा अधिकारः प्रज्ञापकदिशा च तथापि पूर्वसूत्रे साक्षात् प्रज्ञापकदिग् उपात्ता, अत्र तु भावदिग् इति अवगन्तव्यम् ।
___ ननु चात्र संसारिणां दिग्-विदिगागमनादिका विशिष्टा सञ्ज्ञा निषिध्यते न सामान्यसझेति, एतच्च सञ्जिनि धर्मिणि आत्मनि सिद्धे सति भवति, “सति धर्मिणि धर्माश्चिन्त्यन्ते" [ ] इति वचनात् । स च प्रत्यक्षादिप्रमाणागोचरत्वाद् दुरुपपादः, तथा हि- न असौ अध्यक्षेण अर्थसाक्षात्कारिणा विषयीक्रियते, तस्य अतीन्द्रियत्वात्, अतीन्द्रियत्वं च स्वभावविप्रकृष्टत्वात् । अतीन्द्रियत्वादेव च तदव्यभिचारिकार्यादिलिङ्गसम्बन्धग्रहणासम्भवाद् नाऽपि अनुमानेन । तस्य अप्रत्यक्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः नाऽपि उपमानेन । आगमस्य अपि विवक्षायां प्रतिपाद्यमानायां अनुमानान्तर्भावाद् अन्यत्र[?त्वे] च बाह्ये अर्थे सम्बन्धाभावाद् अप्रमाणत्वम्, प्रमाणत्वे वा परस्परविरोधित्वाद् नाऽपि आगमेन ।
१५
___ टि० १. ०तलोच० च ॥ २. ०णापलि० ग ङ ॥ ३. ०ति भावार्थः घ ङ च ॥ ४. रं दर्शयति क ॥ ५. ०पातैर्भव क ॥ ६. ०ष्यादिः पूर्वजन्मन्यासम् ? को वा ख ग ॥ ७. वा देव मनु० ख ग च । दिरतो मनु० घ ङ ।। ८. ०न्मतः ग घ ङ ॥ ९. इह च सं० घ ङ ॥ १०. उत्पत्स्यामि ? इत्ये० ख ॥ ११. ०पका दि० ग ङ। ०पकादिका दि० ख घ च ॥ १२. ०माणगोचरातीतत्वाद् ख ग घ ङ ॥ १३. ०ङ्गग्रहणा० ख ॥ १४. ०न्धसम्यग्ग्रहणा० घ ङ ॥ १५. तत्समानग्रह० ख ।।
३०