SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ [श्रु०१ । अ०१ । उ०१ । नि०५९ ] [नि०] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् सोलर्स वी तिरियदिसा सगड्डेड्डीसंठिया मुणेयव्वा । दो मल्लगमूलाओ उड्डुं च अहे वि य दिसाओ ॥५९॥ पूर्व पुत्र० २८ सोलस इत्यादि । षोडशापि तिर्यग्दिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारक-देवाख्ये द्वे एव उर्द्धा-ऽधोगामिन्यौ शरावाकारे स्तः, यतः शिरोमूले पादमूले च स्वल्पत्वाद् मल्लकबुध्नाकारे, गच्छन्त्यौ च विशाले भवत इति । आसां सर्वासां तात्पर्यं यन्त्रकादवसेयम्, तच्चेदम् - उत्तर परिता पश्चिम पश्चिम भावदिग्निरूपणाय आह— [नि०] पूर्व उत्तर सावि० उत्तर धम्मा प्रज्ञा० सामु०, पू०द० दक्षिणपश्चिम अहि० कवि० दक्षिण खेले० मणुया तिरिया काया तहग्गबीया चउक्कगा चउरो । देवा नेरईया या अट्ठारस होंति भावदिसा ॥६०॥ ॥५९॥ मया इत्यादि । मनुष्याः चतुर्भेदाः तद्यथा - सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपंजाश्चेति । तथा तिर्यञ्चः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्धा । कायाः पृथिव्यप्तेजो - वायवः चत्वारः । तथाऽग्र-मूल-स्कन्धपर्वबीजाश्चत्वार एव । एते षोडश देव - नारकप्रक्षेपाद् अष्टादश । एभिः भावैः भवनाद् जीवो व्यपदिश्यत इति भावदिग् अष्टादशविधा इति ॥६०॥ अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानां अविगानेन गत्या - ऽऽगती स्पष्टे सर्वत्र सम्भवतः तयैव इहाधिकार इति तामेव निर्युक्तिकृत् साक्षाद् दर्शयति, भावदिक् च अविनाभाविनी सामर्थ्याद् अधिकृता एव, यतः तदर्थमन्या दिशः चिन्त्यन्त ' आह— टि० १. ०स वि य ति० झ ञ ॥ २. ०डुद्धीसं० ख ज झ ठ ॥ ३. ०हे य वि दि० ख । ०हे चिय दि० झ ॥। ४. ०रे भवतः, यतः ख च ॥ ५. ०णार्थमाह ख ग ॥ ६. तिदिया छ । इंदिय ज ॥ ७. ०या अग्गा बी० ख छ ठ । ०या अग्ग बी० ज । ०या तउ अग्गबी० झ ॥ ८. ०इआ वा ख ॥ ९. होइ छ । हुति झ ठ ॥ १०. ०पकाश्चेति ख ॥ ११. ०शभेदेति ख ग च ॥ १२. इत्याह ख ॥ वि०टि० = अत्र 'तच्चेदमधस्तनपत्रे' इति खंभातस्थप्रतौ पाठः ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy