________________
२६८
उत्कीर्यन्ते शिलासु चे-दागमांश्विरस्थायिनः ।
भवेयुरिति सङ्कल्पः सूरीणामेकदाऽभवत् ॥ ९ ॥
युगनिध्यङ्कचन्द्रब्दे वैक्रमे शुभवासरे ।
सूरीणां तीर्थयात्राया उपदेशाद् वराशयौ ॥ १० ॥ इम्यौ श्रीपोपटभाई-चनीलालेति सङ्घको ।
दानवीरौ धर्मिश्रेष्ठौ भूरिश्रमणश्रावकम् ॥ ११ ॥ सौराष्ट्र तीर्थयात्रायाः सङ्घ रीषट्कपालकम् । निरकासयतां जाम-नगराद् जिनगेहयुक् । त्रिभिर्विशेषकम् ॥१२॥ तत्र सङ्घ सूरिवर्या विहरन्तः पुरात्पुरम् ।
तीर्थ शत्रुञ्जय नन्तु पादलिप्तपुरेऽगमन् ॥ १३ ।। सकेन सह सिद्धादि रम्यचैत्यालिराजितम् ।
आरुह्य सूरयो नाभि-नन्दन जिनमस्तुवन् ॥ १४ ॥ ततः सूरिवराः सिद्ध-गिरिप्रभावमद्भुतम् ।
पुनः पुनः संस्मरन्तो गिरिराजादवातरन् ॥ १५ ॥ तत्रागमान् शिलारूढान् निर्मातु गुरवोऽदिशन् ।
तथा तदागमन्यास-कृते मन्दिरनिर्मितिम् ॥ १६ ॥ श्रुत्वोपदेश सूरीणां तत्कृते सङ्घशेखराः ।
पोपटभाई जह्वेर-मोहनभाईमुख्यकाः ।। १७ ॥