SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ७०६] योगकर्मग्रन्थादिशास्त्राणां, कत्रो भाग्यशालिनः । श्रावकदिनकृत्यानां, निर्मातारश्च ते मताः ॥४२६ मेदपाटनृपाणां च, समरसिंहभूभुजाम् । जयतल्लाख्य देवीनां, सर्वेषां प्रतिबोधकाः ॥४२७॥ सरीणामुपदेशेन, जयतल्लाख्य राज्ञीभिः । चित्रकुटीय दुर्गेषु, पार्श्वनाथस्य मन्दिरम् ॥४२८॥ निर्मापितं च भावेन, सम्यक्त्वप्राप्तिहेतवे । प्रतिष्ठा सूरिवर्येण, कारिता विधिपूर्वकम् ॥४२६॥ गूर्जरदेशवास्तव्य, वीरधवलभूपतेः । भक्तिश्च गुरुदेवानामुपर्यतीव जायते ॥४३०॥ अमात्यवस्तुपालोऽपि, जातश्च गुरुभक्तराट् । समरसिंहभूपालः, सरीणामुपदेशतः ॥४३१॥ अमारिपटहोद्धोषः, स्वराज्ये कारितो मुदा । अनेकधर्मकार्याणि, कृतानि गुरुयोधतः ॥४३२॥ महाप्रतापिनस्ते च, जैनशासनदीपकाः । जयन्तु गुरुदेवाश्च, तादृशा जगती तले ॥४३३॥ तत्प? धर्मघोषाख्याः, सरयश्च समागताः। मण्डपदुर्गवास्तव्य, पेथडाख्यस्य मन्त्रिणः ॥४३४
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy