________________
-प्रदीप
[0] जगच्चन्द्राख्य सरिश्च, मुख्यतया विराजते । अनेककार्यकर्तृ त्वं, सूरिषु च निगद्यते ॥४१७॥ घोरतपस्विनस्तांश्च, परमत्यागिनस्तथा । मेदपाटनरेशन, जैत्रसिंहेन तत्क्षणे ॥४१८॥ तान् दृष्ट्वा च तपा रूपं पदं तेन समर्पितम् । दीक्षाग्रहणकालादारभ्य कण्ठगतासुकम् ॥४१६॥ आचाम्लाख्य तपश्चर्य, कृतं कल्याणहेतवे । मेदपाटनरेशश्च, जातः परमभक्तराट् ॥४२०॥ राजसभासु तैरेवः दिगम्बरीय वादिनाम् । द्वात्रिंशद्गणनानां च, जित्वा वादे सुयुक्तितः ॥४२१ हीरकवदभेद्यत्वाद्य क्तीनां वादकालिके । हीरलेति च सोपाधिः, प्राप्तश्च राजसंसदि ॥४२२॥ मेदपाटनपाश्चैव, मन्यन्ते बहुभक्तितः । वटगच्छस्य सन्नाम, सूरितश्च तपोऽभिधम् ॥४२३ अद्यावधि च तन्नाम, वर्तते जैनशासने । उन्नतिः खलु तस्यैव, प्रतिदिनं च जायते ॥४२४॥ जगच्चन्द्राख्यसूरीणां, पट्टे देवेन्द्रसूरयः ।। महाप्रभावसद्य क्ताः, संजाता जैनशासने ॥४२॥
४५