________________
॥ नमः श्रीऋषिमण्डलाय ॥ ॥ नमामि नित्यं गुरुरामचन्द्रम् ।।
श्रीधर्मघोषसूरिशिष्यविनिर्मितं सावचूरिकं ॥ श्रीऋषिमण्डलस्तव प्रकरणम् ॥
मित्र सी
श्लोक : भत्तिभरनमिरसुरवरकिरीडमणिपंतिकंतिकयसोहे | उसभाइजिणवरिंदाणं, पायपंकेरुहे णमिमो ॥ १ ॥
टीका : भक्तिभरेण 'नमिरा' नम्रा ये सुरवरा इन्द्रास्तेषां ये किरीटाः मुकुटास्तेषु या मणिपङ्क्तयो मणिश्रेणयस्तासां याः कान्तयो दीप्तयस्ताभिः कृतशोभान् चरणकमलान् 'णमिमो' नमस्कुर्मः । केषां ? ऋषभादयश्च ते जिनवरेन्द्राश्च ऋषभादि-जिनवरेन्द्रास्तेषाम्
॥१॥
ભાવાર્થ : ભક્તિના સમૂહથી નમતા ઈન્દ્રોના મુગટમાં રહેલા મણિઓની શ્રેણિની કાંતિ વડે શોભતા એવા શ્રી ઋષભદેવ પ્રભુ આદિ સર્વ જિનેશ્વરોના ચરણકમલમાં નમસ્કાર કરીએ छीखे. (१)
स्तवप्रकरणम्॥
૧