SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ૪૨ [३०] श्रीशाश्वतजिनस्तवनम् । शाश्वतं तीर्थनाथानां त्रिसन्ध्यं नौमि भावतः । चक्रवालं भवव्यालं हन्तुं शाश्वतशर्मदम् तारामण्डलमध्ये याः सन्ति यास्ताविषस्थिताः । पातालाभरणीभूता याः सन्ति सर्वकामदाः द्वीपे नन्दीश्वरे मेरुनगेषु रुचकादिषु ।। वैताढयेषु धरारामाकर्णकुण्डलकुण्डले याः स्थिताः सर्वदा जैनीः शाश्वतीः प्रतिमा मुदा। श्रुतानुसारतः स्मारं स्मारं ध्यायामि ताः सदा ॥४॥ ( त्रिभिर्विशेषकम् ) नाम्ना श्रीऋषभो देवो वर्द्धमानो जिनेश्वरः । . चन्द्राननजगन्नाथो वारिषेणजिनः श्रिये चम्नान श्रीकनभो देबोरबळमानो जिनेश्वरः [३०] १ तीर्थनाथानां शाश्वतशर्मदं अक्षयसुखदायकं, शाश्वत-निरन्तरभावि, चक्रवालं समूह, त्रिसन्ध्वं भावतो नौमि । भवव्यालं-भवरूप दुष्टगजम् । २ ताविषस्थिताः स्वर्गस्थिताः । ५ ऋषभदेवः, वर्द्धमानः, चन्द्राननो वारिषेणश्चेति चत्वारो जिनाः शाश्वता मताः ।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy