SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४३ [३१] श्रीशाश्वताशाश्वतजिनस्तवनम् । नामाऽऽकृतिद्रव्यभावैः पुनतस्त्रिजगज्जनम् । शाश्वताशाश्वतानाप्तानहतः स्तुतिमानये ॥१॥ यत्र क्षेत्रे च देशे च काले च सम्भवोऽहताम् । तत्र ते स्वामिनः सर्वे जयन्तु जयकारिणः ॥२॥ क्षेत्राणि तानि शस्यानि ते देशाः शुभशालिनः। स कालोऽपि पवित्रश्च यत्र तीर्थकृतां जनुः ॥३॥ सफलं मानुषं जन्म तेषां ये जिनसेवकाः । श्रीः शुभा सैव या जैनसद्मादौ व्ययमायते ॥४॥ सर्वे तीर्थकृतोऽशेषसम्पदानन्ददायिनः । तिष्ठन्तु सर्वदा चित्ते मदीये मदवर्जिते [३२] श्रीशत्रुञ्जयस्तवनम् । आदिनाथ ! जगन्नाथ ! विमलाचलमण्डनः । जय नाभिकुलाऽकाशप्रकाशनदिवाकर ! ॥१॥ [३१] १ नामाऽऽकृतिद्रव्यभावः नाम-स्थापना-द्रब्य-भावाभिधैः चतुर्भिः निक्षेपैः । पुनतः पावयतः । ३ शस्यानि=श्लायानि । जनुः जन्म । ४ जैनसद्मादौ जिनप्रासादादौ । ५ मदीये मम ।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy