SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् तृतीयं जवनिकान्तरम् (ततः प्रविशति राजा विदूषकश्च ।) राजा-(तामनुसंधाय।) दूरे किजदु चंपअस्स कलिआ कजं हलिद्दीअ किं ओल्लोलाइ वि कंचणेण गणणा का णाम जञ्चेण वि । लावण्णस्स णउग्गदिंदुमहुरच्छाअस्स तिस्ता पुरो पञ्चग्गेहि वि केसरस्स कुसुमक्केरेहि किं कारणं ॥१॥ अवि अ,मरगअमणिगुच्छा हारलट्ठि व्व तारा भमरकवलिअंता मालईमालिअ व्व। रहसवलिअकंठी तीअ दिट्ठी वरिट्ठा सवणपहणिविट्ठा माणसं मे पइट्टा ॥२॥ दूरे इति । दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं उत्तप्तेन च काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः प्रत्यप्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥ तस्या लावण्यस्येति संबन्धः । अत्राक्षेपोपमे । आक्षेपलक्षणमुक्तं वृद्धः-'प्रतिषेधपुरःसरोक्तिराक्षेपः ।' काव्यादर्शेऽपि (२।१२०)-'प्रतिषेधोक्तिराक्षेपः' इति। अपि च, मरकतमणिजुष्टा हारयष्टिरिव तारा भ्रमरकवलिताधी मालतीमालिकेव । रभसवलितकण्ठी तस्या दृष्टिर्वरिष्ठा श्रवणपथनिविष्टा मानसं में प्रविष्टा ॥ तारैव भ्रमरस्तेन कवलितमध यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे । 1 'उत्तत्तेण अ' इति टीकादृतपाठः। 2 मणिजट्ठा' इति टीकाभिमतः पाठः। क० म०६
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy