SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४ कर्पूरमञ्जरी ... विदूषकः-के के ? विचक्षणा-कुरवअतिलअअसोआ। विदूषकः--ता किं तेहिं ? विचक्षणा-भणिदा सा देवीए । जधा,कुरवअतिलअअसोआ आलिंगणदसणग्गचलणहआ। विअसंति कामिणीणं ता ताणं देहि दोहलअं॥४३॥ एण्हि तं संपादइस्सदि। . विदूषकःकः कः ? विचक्षणाकुरबकतिलकाशोकाः। विदूषकःतत्कि तैः ? विचक्षणाभणिता सा देव्या । यथा, कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः । विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ॥ यद्यस्मात्कारणात्कामिनीनामालिङ्गनदर्शनाग्रचरणहताः सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फुल्ला भवन्ति, तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् । यद्वा,-तदिदमिति तच्छब्देन पूर्वोक्तालिङ्गनादि परामृश्य योज्यम्, तदा न यत्पदाध्याहारः । कुरबकादित्रयस्य कामिन्यालिङ्गनादित्रयेणैव विकासो वर्ण्यत इति कविसंप्रदायः । तथोक्तम्-'पादाहतः प्रमदया विकसत्यशोकः शोक जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥' इति । 'आलिङ्गनेनैव मृगायताक्ष्याः प्रफुल्लतां वै तिलकः
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy