________________
द्वितीयं जवनिकान्तरम् विदूषकः--(सम्यगवलोक्य ।) अहो, विअक्खणा सिसिरोवआरसामग्गीसहिदा आअदा।
(ततः प्रविशति शिशिरोपचारसामग्रीसहिता विचक्षणा।) विचक्षणा-(परिक्रम्य । ) अहो, पिअसहीए महंतो खु विरहदाहज्जरो।
विदूषकः-( उपसृत्य । ) भोदि ! किं एदं ? विचक्षणा–सिसिरोवआरसामग्गी । विदूषकः–कस्स कदे ?
अत्रापि च्छेकानुप्रासविभावनारूपकाऽहेतुसंकररूपाः शब्दार्थालंकारा ऊह्याः । विभावनालक्षणमुक्तमभियुक्तैः–'कारणाभावेऽपि कार्योपक्षेपो विभावना' इति । अहेतुलक्षणमप्युक्तम्-'कारणे सत्यपि कार्याभावोऽहेतुः' इति । अस्यैव संज्ञा विशेषोक्तिरिति काव्यप्रकाशे । संकरलक्षणमप्युक्तम्-'खात येणाङ्गत्वेन संशयेनैकपद्मेन वाऽलंकाराणामेकत्रावस्थानं संकरः' इति । विदूषकःअये, विचक्षणा शिशिरोपचारसामग्रीसहितहस्तागता। 'नासूचितस्य पात्रस्य प्रवेशः' इति पूर्वमेव विदूषकमुखेन सूचनम् । विचक्षणाअहो, प्रियसख्या महान्खलु विरहदाहज्वरः । विदूषकःभवति ! किमेतत् ? विचक्षणाशिशिरोपचारसामग्री। विदूषकःकस्य कृते?
1 'सामग्गीसहिदहत्या' इति टीकानुगुणः पाठः । ...