SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४४ कर्पूरमञ्जरी द्वितीयं जवनिकान्तरम् (ततः प्रविशति राजा प्रतीहारी च ।) प्रतीहारी-(परिक्रामितकेन । ) इदो इदो महाराओ। राजा-(कतिचित्पदानि गत्वा । तामनुसंधाय । ) तहिं खु अवसरे ण हाणाहिं तिलंतरं पि चलिदा सुत्था णिअंवत्थली __ थोउवेल्लवलीतरंगमुदरं कंठो तिरिच्छिट्टिदो। वेणीए उण आणणेंदुभमणे लद्धं थणालिंगणं जादा तीअ चउविहा तणुलदा तंसं वलंती मए ॥ १॥ प्रतीहारीइत इतो महाराजः। राजागत्वेत्यनन्तरमाह स्मेति शेषः । तस्मिन्खल्ववसरे,----- न स्थानात्तिलान्तरमपि चलिता स्वस्था नितम्बस्थली स्तोकोद्वेलद्वलीतरङ्गमुदरं कण्ठस्तिर्यस्थितः । वेण्या पुनराननेनन्दुभ्रमणे लब्धं स्तनालिङ्गनं । जातास्तस्याश्चतुर्विधा तनुलता निध्याययन्त्या माम् ॥ अत्र स्मृतिः। तल्लक्षणं साहित्यदर्पणे (३।१६२)-'सदृशज्ञानचिन्ताद्यभ्रू. समुन्नयनादिकृत् । स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते॥' परिकरोऽलंकारः। तलक्षणमुक्तं वृद्धः-'विशेषणसामिप्रायत्वे परिकरः' इति । अत्र च स्थलीतरङ्गादिविशेषणानां तथात्वमूह्यम् । रूपकं चात्र । तल्लक्षणमुक्तं मम्मटेन-(का. प्र. १०९३) 'तद्रूपकममेदो य उपमानोपमेययोः।' इति न स्थानात्तिलान्तरमपीत्यनेन नितम्बस्य गरिमातिशयो ध्वन्यते । 'वलीतरङ्गम्' इत्यनेन स्वच्छतातिशयो व्यज्यते। 'तनुलता' इत्यनेन च कार्यचापल्यशैत्यादिलतागुणवत्त्वं वपुषो ध्वन्यते। - 1 'णिज्झाअअंतीम मं' इति टीकापाठः; 'तंसं पुलंती अ मं' इत्यपि पाठः क्वचित् ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy