SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४५ द्वितीयं जवनिकान्तरम् प्रतीहारी-( खगतम् । ) कहं अज्ज वि सो जेव सिरितालीपत्तसंचओ, ताओ ज्जेव अक्खरपंतीओ। ता वसंतवण्णणेण सिढिलआमि से तग्गदं हिअआवजं । (प्रकाशम्। ) दिटिं देदु महाराओ ईसीसि जरढाअमाणे कुसुमाअरम्मि । मूलाहिंतो परहुदवहूकंठमुई दलंता देता दीहमहुरिमगुणं जंपिए छप्पआणं । संचारेंता विरहिसु णवं पंचमं किं च राअं राउम्मत्ता रइकुलहरा वासरा वित्थरंति ॥२॥ प्रतीहारी कथमद्यापि स एव श्रीताडीपत्रसंचयः, ता एवाक्षरपतयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् । 'आवेग'शब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते । दिद्धिं इति । दृष्टिं ददातु महाराज ! ईषदीषज्जरठायमाणे कुसुमाकरे। कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा। कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थान श्रेष्ठेषु कथ्यते।' इति विश्वः ।। मूला इति । मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलन्तो दपतो दीर्घ मधुरिमगुणं जल्पिते पदपदानाम् । संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ।। परभृतवध्वः कोकिलस्त्रियः । परभृता वध्व इवेति वा । पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । तेन दुःसहत्के च तेषां तस्य भावादिति भावः (१)। 'पुष्पसाधारणे काले पिकः कूजति पञ्चमम्।' 'किंचिद्रागम्'इ ति ‘पञ्चमम्' इत्यस्य विशेषणम्। किंचिद्रागो यस्यां क्रियायामिति यथा
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy