SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रथमं जवनिकान्तरम् द्वितीयःउग्घाडिजति लीलामणिमअवलहीचित्तभित्तीणिवेसा पल्लंका किंकरीहिं उदुसमअसुहा पत्थरिजंति झत्ति । सेरंधीलोलहत्थंगुलिचलणवसा पट्टसद्दो पअट्टो हुंकारो मंडवेसुं विलसदि महुरो रुटुतुटुंगणाणं ॥ ३६ ॥ राजा-अम्हे वि संझं वंदितुं गमिस्सामो । (इति निष्कान्ताः सर्वे ।) . इति प्रथमं जवनिकान्तरम् । दिवसस्य प्राणतुल्यमिति वासरेत्याद्यर्थः । कालान्तरे सायंसमये। अत्रोत्प्रेक्षा । भवदर्शनात्संजातमदना कर्पूरमञ्जरीति समासोक्तिश्च । नायिकाधर्माणां नलिन्यामारोपितत्वात्समाधिरपि ॥ द्वितीयः उद्घाट्यन्ते लीलामणिमयवलभीचित्रभित्तिनिवेशाः __ पर्यङ्काः किंकरीभिः उडुसमयसुखा विस्तार्यन्ते झटिति । सैरन्ध्रीलोलहस्ताङ्गुलिचलनवशात्पट्टनादः प्रवृत्तो हुंकारो मण्डपेषु विलसति मधुरो रुष्टतुष्टाङ्गनानाम् ॥ लीलार्थ मणिमय्यो वलभ्यश्च चित्रभित्तिनिवेशाश्चेति विग्रहः । चित्रभित्तिनिवेशाश्चित्रगृहाः । ते उद्घाट्यन्ते । अभिसारिकाद्यभिसारणार्थम् । किंकरीभिर्दासीभिः। ऋतुः प्रस्तुतो वसन्तः । सैरन्ध्री प्रसाधिका । पट्टो मृदङ्गः । हस्तेत्येतावतैव सिद्धेऽर्थेऽङ्गुलिपदं तासां वाद्यवादनकौशलसूचनाय । [आद्यपदेनाभिसारिकाद्या उपक्षिप्ता नायिकाः । ] रुष्टतुष्टेत्यनेन कलहान्तरितास्ता इति ध्वनितम् ॥ राजावयमपि संध्यां वन्दितुं गमिष्यामः । इति श्रीमद्विद्वद्वन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी ___ प्रकाशे प्रथमं जवनिकान्तरं समाप्तम् । ___1'पट्टनादो' इत्यत्र टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy