SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ बालभारतम् रे रे ब्राह्मण ! मुश्च विप्लवममुं श्रुत्यर्थवीथीं स्मर क्षत्रस्यात्र ननु स्वयंवरविधावेकाधिकारः स्थितः। तञ्चेन्नाद्रियसे स्मरार्द्रहृदयो दण्ड्यस्त्वमुर्वीभुजां तत्संकर्षणकार्मुके समुदिता नैते क्षमन्ते नृपाः ॥ ८२॥ अर्जुनः-(तान्प्रति ।) कस्य द्रोणो धनुषि न गुरुः स्वस्ति देवव्रताय ___त्यक्ताभ्यासः कुरुपतिरयं श्रीसमुत्थैर्विलासैः। भोः कर्णाद्याः! शृणुत तदिमां ब्राह्मणस्यास्य वाणी राधायन्नं रचयत पुनर्विद्धमप्यस्त्वविद्धम् ॥ ८३॥ सखी-सखि ! इतस्तरलितहारहारिवक्षः उन्मुक्तचक्रमुच्चण्डस्थितचित्रदण्डमाकर्णकृष्टकोदण्डमण्डलमधिष्ठितभिन्दिपालमाहितसंघट्टपट्टिशमसंख्यशङ्कुसंभूषणमलंकृतकनककवचं समन्ततः समुत्तरति वृन्दं नरेन्द्राणाम् । बन्दीसंघट्टोस्पिष्टचूडाच्युतमणिकणिकाकरैर्बाहुदण्डै स्तूणोत्कीर्णास्त्रदण्डाः क्षितिपतय इमे सर्वतः संरभन्ते । अग्रे कृत्वा विलोलां द्रुपददुहितरं विद्धराधाशरव्यं बाणं कोदण्डदण्डे विदधदयमितो वर्तते विप्रवीरः ॥ ८४ ॥ (नेपथ्ये।) देवस्य धुमणेः कुले नृपतयो ये चात्र चूडामणेः श्रीकण्ठस्य निवेदयामि तदिदं तेषां द्वयेषामपि । विप्रश्चीवरवान्लहायरहितः कोऽप्येष वः पश्यतां राधावेधकरो हठेन हरते कीयां समं द्रौपदीम् ॥ ८५॥ भीमः-वत्स धनंजय ! त्वं कराकलितद्रौपदीक एव मामनुवर्तख अहं राजचक्रस्य पुरतो भवामि । (तथा करोति ।) १. भीष्माय.
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy