SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः नकुल:- आर्य ! इमं तालतरुमायुषीकुरु । ( भीमस्तथा करोति । ) बन्दी उत्पाटितमहातालः क्लृप्तत्चण्डगदाधरः । विप्रवीरो द्वितीयोऽपि पार्थिवानां पुरः स्थितः ॥ ८६ ॥ अर्जुन : – ( राजकमवलोक्य । ) अयमहमिह विप्रः प्रोतराधारहस्यस्त्रिभुवनजयमुद्रा द्रौपदी चेयमत्र । कलयथ यदि दोष्णश्चापदण्डप्रचण्डस्त्यजत रथगजस्थास्तत्पुरस्योपकण्ठम् ॥ ८७ ॥ बन्दी—(विचिन्त्य । ) वीर्य वचसि विप्राणां क्षत्रियाणां भुजद्वये । इदमत्यन्तमाश्चर्य भुजवीर्या हि यद्विजाः ॥ ८८ ॥ ( अर्जुनस्तदेव पठति । ) ( नेपथ्ये । ) साधु ब्राह्मण ! साधु क्षत्रमार्गमनुवर्तसे । भीमः - यद्येवम्, - --- २१ प्रसर्पतु रणाङ्गणे रुधिरकेलिकल्लोलिनी भवन्तु फलिता इव द्विरदमुण्डखण्डैर्दिशः । नृमांसकवलान्तरेष्वपि च साग्निलेखैर्मुखैः कृतान्तजयमङ्गलं विदधतु ध्वनिं फेरवाः ॥ ८९ ॥ ( इति निष्क्रान्ताः सर्वे । ) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनाम्नि बालभारते नाटके राधावेधो नाम प्रथमोऽङ्कः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy