SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः बन्दीआकर्णाश्चितचापमण्डलमुचा बाणेन यत्रोदरच्छिद्रोत्सङ्गविनिर्गतेन तरसा विद्धा च राधामुना। (द्रौपदीमवलोक्य ।) तुल्यं मोहनशोषणप्रभृतयः प्रक्षेपकुण्ठक्रमाः कामेन द्रुपदात्मजाहृदि हठान्यस्ताश्च पञ्चेषवः ॥ ७८ ॥ सखी-आश्चर्यमाश्चर्यम् । असलिलात्कुवलयोत्पत्तिरकुसुमं कुसुमकोदण्डकाण्डममन्त्रतन्त्रं मनोमोहनमिन्द्रजालमस्या दृष्टिविप्रवीरवदने निष्पतन्ती न विरमति । अर्जुन:-कथं राधावेधानन्तरमियमस्मासु स्निह्यति ? यतः, जैत्रं तन्त्रं कुसुमधनुषः प्रेमसर्वस्वदूताः __ सत्यंकाराः प्रणयक्तितेस्तुष्टये पुष्टियोगाः। विन्यस्यन्तः श्रवसि सुतनोर्मेचकाम्भोजभूषा मुत्कण्ठन्ते मयि निपतितुं नर्तिताक्षाः कटाक्षाः॥ ७९॥ बन्दी-हा हा धिक्कष्टम् । ध्रुवमिदमुपदिष्टं कैश्चिदाचार्यपादै र्यदुत जनकशोकस्यैकहेतुः कुमारी । अकलितकुलशीलोऽप्येष यत्कोऽपि धन्वी द्रुपददुहितुरस्या वाञ्छति स्वामिभावम् ॥ ८॥ अर्जुनः हहो बन्दिवृन्दारक, किमत्र कुलान्वेषणेन । किं वा मे शीलपालोचनया । धनुरारोपणपणपरिणेया द्रौपदी । (नेपथ्ये ।) हहो ब्राह्मण, त्वामेवं समुदिता नृपतयो भाषन्ते सायकश्च त्वया मुक्तो यन्त्रं वा तेन चाहतम् । तन्मा वृथा विकत्थख न राधां विद्धवानसि ॥ ८१॥ (पुनः साक्षेपम् ।)
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy