SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ बालभारतम् अपि च, बीडानतेषु वदनेषु च भूपतीनां संचारयन्विकचपङ्कजचारु चक्षुः। अभ्येति मत्तगजखेलगतिः स एष साभ्यर्थनं मुनिजनेन निषिध्यमानः ॥ ७४॥ अर्जुनः—(कतिचित्पदानि दत्त्वा । चतुर्दिशमवलोक्य ।) एतत्कृष्णस्य शाङ्ग ननु धनुरतनुप्राणदोर्दण्डचण्डै र्दूराद्भूपप्रकाण्डैः सपदि परिहृतं शिजिनीसञ्जनेषु । मध्ये राज्ञां प्रतिज्ञा मम पुनरियती मद्भजायन्त्रयोगे प्रत्येकं पर्वमुद्रा त्रुटति तडिति वा जायते कर्मठं वा ॥ ७५॥ (सरभस परिक्रम्य धनुरारोपणं नाटयन् । ) - मद्वाहुयन्त्रयुगयन्त्रितमाततज्यं . न स्याद्धनुः कथमिदं हि रथाङ्गपाणेः। बुध्नाटनिर्यदि न याति च भूमिपृष्ठ___ मा शेषमा च कमठाधिपमभ्युपेयात् ॥ ७६ ॥ भीमा-वत्स नकुल ! भिदुरा भूमिरिति मा कदाचन कदर्थितकोदण्डकोटिः स्याकिरीटी । तत्तस्याधस्ताद्धस्तं दाव्य निदधे । (इति तथा करोति ।) नकुल:धत्से जर्जरतां न मेदिनि ! मुधा मा शेष ! शङ्कां कृथा स्तुभ्यं कूर्मपते ! नमस्त्यज भयं दिक्कुञ्जराः! स्वस्ति वः । यजिष्णुर्भुजयोर्बलेन नयति ज्यां हेलयवाटनी धत्ते पाणितलं तलेऽस्य धनुषो वामं हिडिम्बापतिः ॥ ७ ॥ (अर्जुन आरोपयति ।) सखी-भगवति मिथुनसंघटनैकदेवते! कुण्ठितनिःशेषनरेन्द्रचक्रमेकविप्रवीरसमुद्यमशेषं वर्तते स्वयंवरडम्बरम् । (अर्जुनो बाणमोक्षं नाटयति ।)
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy