SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः यस्मिन्मदस्य मदनस्य च भूर्ममार्यो यस्मिन्नमी च यदुवंशभुवः कुमाराः । नन्वत्र सोsहममुना कमलावतारस्त्रीचक्र केलिचतुरश्चरितेन लज्जे ॥ ५७ ॥ ( परिक्रामितकेन । ) बन्दी - वल्गच्चाणूरचूर्णीकरणसहभुवः पूतनाफूत्कृतानां कर्तारः कंसवंशप्रशमपरशवः केशिनः क्लेशकाराः । यस्यासन्दानदर्पप्रबलकुवलयापीडपीडाप्रगल्भाः क्रीडाडिम्भस्य लीलोद्धतधरणिधराः केलयः कालियारेः ॥५८॥ तस्यैष शम्बरमहासुरसुन्दरीणां सिन्दूरमण्डनहरेण पराक्रमेण । शश्वत्प्रकामकमनीयजनोपमानं प्रत्यक्षपञ्चविशिखस्तनयः पुरस्तात् ॥ ५९ ॥ १५ द्रौपदी - यः किल यादवकुमाराणां मध्ये निरुपमरूपरेखाजयपताकां निर्विलम्बमवलम्बते । बन्दी - धृष्टद्युम्न आर्य ! उद्यतः क्रतुकृशानुजन्मनः कर्तुमेष धनुषोऽधिरोहणम् । शार्ङ्गिणा भगवता ससंभ्रमं भ्रूविटङ्कघटनेन वार्यते ॥ ६० ॥ ( परिक्रामितकेन । ) बन्दी — कथं सात्यकिः, अपि च धनुर्विद्यारहस्येषु शिष्योऽयं सव्यसाचिनः । प्रद्युम्नस्य सहाध्यायी सात्यकिः सत्यसंगरः ॥ ६१ ॥ यः सत्यस्य निधिः श्रियां च सरणिः खाम्नां च धाम्नां चयो यो दाता च दयालुरेव च पदं कीर्तेश्च नीतेश्च यः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy